००८ मन्थरादुर्बोधः

मन्थरा त्वभ्यसूयैनामुत्सृज्याभरणं च तत्।
उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥ 2.8.1 ॥
हर्षं किमिदमस्थाने कृतवत्यसि बालिशे।
शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥ 2.8.2 ॥
मनसा प्रहसामि त्वां देवि दुःखार्दिता सती।
यच्छोचितव्ये हृष्टासि प्राप्येदं व्यसनं महत् ॥ 2.8.3 ॥
शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत्।
अरेः सपत्नीपुत्रस्य वृद्धिं मृत्यारिवागताम् ॥ 2.8.4 ॥
भरतादेव रामस्य राज्यसाधारणाद्भयम्।
तद्विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते ॥ 2.8.5 ॥
लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः।
शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा ॥ 2.8.6 ॥
प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि।
राज्यक्रमो विप्रकृष्टस्तयोस्तावत्कनीयसोः ॥ 2.8.7 ॥
विदुषः क्षत्त्रचारित्रे प्राज्ञस्य प्राप्तकारिणः।
भयात् प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥ 2.8.8 ॥
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते।
यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥ 2.8.9 ॥
प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम्।
उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः ॥ 2.8.10 ॥
एवं चेत्त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि।
पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्€यति ॥ 2.8.11 ॥
हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः।
अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥ 2.8.12 ॥
तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः।
रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह ॥ 2.8.13 ॥
धर्मज्ञो जुरुभिर्दान्तः कृतज्ञः सत्यवाक्छुचिः।
रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥ 2.8.14 ॥
भ्रातॄन् भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति।
सन्तप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥ 2.8.15 ॥
भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम्।
पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः ॥ 2.8.16 ॥
सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे।
भविष्यति च कल्याणे किमर्थं परितप्यसे ॥ 2.8.17 ॥
यथा मे भरतो मान्यस्तथा भूयोऽपि राघवः।
कौसल्यातोऽतिरिक्तं च सोऽनुशुश्रूषते हि माम् ॥ 2.8.18 ॥
राज्यं यदि हि रामस्य भरतस्यापि तत्तथा।
मन्यते हि यथात्मानं तथा भ्रातॄंस्तु राघवः ॥ 2.8.19 ॥
कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता।
दीर्घमुष्णं विनिश्वस्य कैकेयीमिदमब्रवीत् ॥ 2.8.20 ॥
अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे।
शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥ 2.8.21 ॥
भविता राघवो राजा राघवस्यानु यः सुतः।
राजवंशात्तु कैकेयी भरतः परिहास्यते ॥ 2.8.22 ॥
न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि।
स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥ 2.8.23 ॥
तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः।
स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि ॥ 2.8.24 ॥
असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति।
अनाथवत् सुखेभ्यश्च राजवंशाच्च वत्सले ॥ 2.8.25 ॥
साहं त्वदर्थे सम्प्राप्ता त्€वं तु मां नावबुध्यसे।
सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि ॥ 2.8.26 ॥
ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्।
देशान्तरं वा नयिता लोकान्तरमथापि वा ॥ 2.8.27 ॥
बाल एव हि मातुल्यं भरतो नायितस्त्वया।
सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्वपि ॥ 2.8.28 ॥
भरतस्याप्यनुवशः शत्रुघ्नोपि समागतः।
लक्ष्मणो हि यथा रामं तथासौ भरतं गतः ॥ 2.8.29 ॥
श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीविभिः।
सन्निकर्षादिषीकाभिर्मोचितः परमाद्भयात् ॥ 2.8.30 ॥
गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः।
अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥ 2.8.31 ॥
तस्मान्न लक्ष्मणे रामः पापं किञ्चित्करिष्यति।
रामस्तु भरते पापं कुर्यादिति न संशयः ॥ 2.8.32 ॥
तस्माद्राजगृहादेव वनं गच्छतु ते सुतः।
एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥ 2.8.33 ॥
एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति।
यदि चेद्भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति ॥ 2.8.34 ॥
स ते सुखोचितो बालो रामस्य सहजो रिपुः।
समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥ 2.8.35 ॥
अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्।
प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ 2.8.36 ॥
दर्पान्निराकृता पूर्वं त्वया सौभाग्€यवत्तया।
राममाता सपत्नी ते कथं वैरं न यातयेत् ॥ 2.8.37 ॥
यदा हि रामः पृथिवीमवाप्स्यति प्रभूतरत्नाकरशैलपत्तनाम्।
तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि ॥ 2.8.38 ॥
यदा हि रामः पृथिवीमवाप्स्यति ध्रुवं प्रणष्टो भरतो भविष्यति।
अतो हि सञ्चिन्तय राज्यमात्मजे परस्य चैवाद्य विवासकारणम् ॥ 2.8.39 ॥