००७ मन्थरामन्त्रणम्

ज्ञातिदासी यतोजाता कैकेय्यास्तु सहोषिता।
प्रसादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥ 2.7.1 ॥
सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम्।
अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥ 2.7.2 ॥
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम्।
वृतां छन्दपथैश्चापि शिरःस्नातजनैर्वृताम् ॥ 2.7.3 ॥
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम्।
शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम् ॥ 2.7.4 ॥
सम्प्रहृष्टजनाकीर्णां ब्रह्मघोषोभिनादिताम्।
प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम् ॥ 2.7.5 ॥
प्रहृष्टमुदितैः पौरैरुच्छ्रितध्वजमालिनीम्।
अयोध्या मन्थरा दृष्ट्वा परं विस्मयमागता ॥ 2.7.6 ॥
प्रहर्षोत्फुल्लनयनां पाण्डरक्षौमवासिनीम्।
अविदूरे स्थितां दृष्ट्वा धात्री पप्रच्छ मन्थरा ॥ 2.7.7 ॥
उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती।
राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति ॥ 2.7.8 ॥
अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे।
कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः ॥ 2.7.9 ॥
विदीर्यमाणा हर्षेण धात्री तु परया मुदा।
आचचक्षेऽथ कुब्जायै भूयसीं राघवश्रियम् ॥ 2.7.10 ॥
श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम्।
राजा दशरथो राममभिषेचयिताऽनघम् ॥ 2.7.11 ॥
धात्र्यास्तु वचनं श्रुत्वा कुब्जाक्षिप्रममर्षिता।
कैलासशिखराकारात् प्रासादादवरोहत ॥ 2.7.12 ॥
सा दह्यमाना कोपेन मन्थरा पापदर्शिनी।
शयानामेत्य कैकेयीमिदं वचनमब्रवीत् ॥ 2.7.13 ॥
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्त्तते।
उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥ 2.7.14 ॥
अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे।
चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥ 2.7.15 ॥
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः।
कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥ 2.7.16 ॥
कैकेयी त्वब्रवीत्कुब्जां कच्चित् क्षेमं न मन्थरे।
विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥ 2.7.17 ॥
मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्।
उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥ 2.7.18 ॥
सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी।
विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ॥ 2.7.19 ॥
अक्षय्यं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम्।
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥ 2.7.20 ॥
सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता।
दह्यमानानलेनेव त्वद्धितार्थमिहागता ॥ 2.7.21 ॥
तव दुःखेन कैकेयि मम दुःखं महद्भवेत्।
त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥ 2.7.22 ॥
नराधिपकुले जाता महिषी त्वं महीपतेः।
उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥ 2.7.23 ॥
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः।
शुद्धभावेन जानीषे तेनैवमतिसन्धिता ॥ 2.7.24 ॥
उपस्थितं प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्।
अर्थेनैवाद्य ते भर्त्ता कौसल्यां योजयिष्यति ॥ 2.7.25 ॥
अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु।
काल्ये स्थापयिता रामं राज्ये निहतकण्टके ॥ 2.7.26 ॥
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया।
आशीविष इवाङ्केन बाले परिहृतस्त्वया ॥ 2.7.27 ॥
यथा हि कुर्यात् सर्पो वा शत्रुर्वा प्रत्युपेक्षितः।
राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ 2.7.28 ॥
पापेनानृतसान्त्वेन बाले नित्यसुखोचिते।
रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥ 2.7.29 ॥
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव।
त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ 2.7.30 ॥
मन्थराया वचः श्रुत्वा शयाना सा शुभानना।
उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी ॥ 2.7.31 ॥
अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता।
एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥ 2.7.32 ॥
दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा।
कैकेयी मन्थरां दृष्ट्वा पुनरेवाब्रवीदिदम् ॥ 2.7.33 ॥
इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम्।
एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥ 2.7.34 ॥
रामे वा भरते वाहं विशेषं नोपलक्षये।
तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥ 2.7.35 ॥