००५ वसिष्ठकृतव्रतादेशः

सन्दिश्य रामं नृपतिः श्वो भाविन्यभिषेचने।
पुरोहितं समाहूय वसिष्ठं चेदमब्रवीत् ॥ 2.5.1 ॥
गच्छोपवास काकुत्स्थं कारयाद्य तपोधन।
श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥ 2.5.2 ॥
तथेति च स राजानमुक्त्वा वेदविदां वरः।
स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥ 2.5.3 ॥
उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः।
ब्राह्मं रथवरं युक्तमास्थाय सुदृढव्रतः ॥ 2.5.4 ॥
स रामभवनं प्राप्य पाण्डराभ्रघनप्रभम्।
तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ॥ 2.5.5 ॥
तमागतमृषिं रामस्त्वनरन्निव ससम्भ्रमः।
मानयिष्यन् समानार्हं निश्चक्राम निवेशनात् ॥ 2.5.6 ॥
अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः।
ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥ 2.5.7 ॥
स चैनं €प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च।
प्रियार्हं हर्षयन् रा€ममित्युवाच पुरोहितः ॥ 2.5.8 ॥
प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि।
उपवासं भवानद्य करोतु सह सीतया ॥ 2.5.9 ॥
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः।
पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ 2.5.10 ॥
इत्युक्त्वा स तदा राममुपवासं यतव्रतम्।
मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥ 2.5.11 ॥
ततो यथावद्रामेण स राज्ञो गुरुरर्चितः।
अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ 2.5.12 ॥
सुहृद्भिस्तत्र रामोपि सहासीनः प्रियम्वदैः।
सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥ 2.5.13 ॥
हृष्टनारीनरयुतं रामवेश्म तदा बभौ।
यथा मत्त द्विजगणं प्रफुल्लनलिनं सरः ॥ 2.5.14 ॥
स राजभवनप्रख्यात्तस्माद्रामनिवेशनात्।
निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥ 2.5.15 ॥
वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः।
बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः ॥ 2.5.16 ॥
जनवृन्दोर्मिसङ्घर्षहर्षस्वनवतस्तदा।
बभूव राजमार्गस्य सागरस्येव निस्वनः ॥ 2.5.17 ॥
सिक्तसम्मृष्टरथ्या हि तदहर्वनमालिनी।
आसीदयोध्यानगरी समुच्छ्रितगृहध्वजा ॥ 2.5.18 ॥
तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः।
रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं रवेः ॥ 2.5.19 ॥
प्रजालङ्कारभूतं च जनस्यानन्दवर्द्धनम्।
उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥ 2.5.20 ॥
एवं तं जनसम्बाधं राजमार्गं पुरोहितः।
व्यूहन्निव जनौघं तं शनै राजकुलं ययौ ॥ 2.5.21 ॥
शुभ्राभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः।
समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥ 2.5.22 ॥
तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः।
पप्रच्छ स च तस्मै तत् कृतमित्यभ्यवेदयत् ॥ 2.5.23 ॥
तेन चैव तदा तुल्यं सहासीनाः सभासदः।
आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥ 2.5.24 ॥
गुरुणा त्वभ्यनुज्ञातो मनुजौधं विसृज्य तम्।
विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ 2.5.25 ॥
तदग्र्यरूपं प्रमदागणाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम्।
विदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसङ्कुलं नभः ॥ 2.5.26 ॥