००३ अभिषेकसम्भारसङ्ग्रहणम्

तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः।
प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥ 2.3.1 ॥
अहोस्मि परमप्री€तः प्रभावश्चातुलो मम।
यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ 2.3.2 ॥
इति प्रत्यर्च्य तान् राजा ब्राह्मणानिदमब्रवीत्।
वसिष्ठं वामदेवं च तेषामेवोपश्रृण्वताम् ॥ 2.3.3 ॥
चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः।
यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ 2.3.4 ॥
शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः।
वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ॥ 2.3.5 ॥
अभिषेकाय रामस्य यत्कर्म सपरिच्छदम्।
तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि ॥ 2.3.6 ॥
तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः।
आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ॥ 2.3.7 ॥
सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि।
शुक्लमाल्यांश्च लाजांश्च पृथक् च मधुसर्पिषी ॥ 2.3.8 ॥
अहतानि च वासांसि रथं सर्वायुधान्यपि।
चतुरङ्गबलं चैव गजं च शुभलक्षणम् ॥ 2.3.9 ॥
चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डरम्।
शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ॥ 2.3.10 ॥
हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च।
उपस्थापयत प्रातरग्न्यागारं महीपतेः ॥ 2.3.11 ॥
यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥ 2.3.12 ॥
अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च।
चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥ 2.3.13 ॥
प्रशस्तमन्नं गुणवद्दधिक्षीरोपसेचनम्।
द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ॥ 2.3.14 ॥
सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्।
घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥ 2.3.15 ॥
ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च।
आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ॥ 2.3.16 ॥
सर्वे च तालावचरा गणिकाश्च स्वलङ्कृताः।
कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ॥ 2.3.17 ॥
देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः।
उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक् ॥ 2.3.18 ॥
दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः।
महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ॥ 2.3.19 ॥
एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ।
चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ॥ 2.3.20 ॥
कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्।
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ॥ 2.3.21 ॥
ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्।
रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥ 2.3.22 ॥
स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्।
रामं तत्रानयाञ्चक्रे रथेन रथिनां वरम् ॥ 2.3.23 ॥
अथ तत्र समासीनास्तदा दशरथं नृपम्।
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ॥ 2.3.24 ॥
म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः।
उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् ॥ 2.3.25 ॥
तेषां मध्ये स राजर्षिर्मरुतामिव वासवः।
प्रासादस्थो रथगतं ददर्शायान्तमात्मजम् ॥ 2.3.26 ॥
गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्।
दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् ॥ 2.3.27 ॥
चन्द्रकान्ताननं राममतीव प्रियदर्शनम्।
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ॥ 2.3.28 ॥
धर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः न ततर्प समायान्तं पश्यमानो नराधिपः ॥ 2.3.29 ॥
अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात्।
पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ 2.3.30 ॥
स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः।
आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ॥ 2.3.31 ॥
स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके।
नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः ॥ 2.3.32 ॥
तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः।
गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ॥ 2.3.33 ॥
तस्मै चाभ्युदितं सम्यङ्मणिकाञ्चनभूषितम्।
दिदेश राजा रुचिरं रामाय परमासनम् ॥ 2.3.34 ॥
तदासनवरं प्राप्य व्यदीपयत राघवः।
स्वयैव प्रभया मेरुमुदये विमलो रविः ॥ 2.3.35 ॥
तेन विभ्राजता तत्र सा सभाभिव्यरोचत।
विमलग्रहनक्षत्र शारदी द्यौरिवेन्दुना ॥ 2.3.36 ॥
तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्।
अलङ्कृतमिवात्मानमादर्शतलसंस्थितम् ॥ 2.3.37 ॥
स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः।
उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः ॥ 2.3.38 ॥
ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ।
उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ॥ 2.3.39 ॥
यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः।
तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ॥ 2.3.40 ॥
कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि।
गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ॥ 2.3.41 ॥
भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः।
कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥ 2.3.42 ॥
परोक्षया वर्त्तमानो वृत्त्या प्रत्यक्षया तथा।
अमात्य प्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ॥ 2.3.43 ॥
कोष्ठागारायुधागारैः कृत्वा सन्निचयान् बहून्।
तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ॥ 2.3.44 ॥
तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः।
तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ॥ 2.3.45 ॥
तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः।
त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥ 2.3.46 ॥
सा हिरण्यं च गाश्चैव रत्नानि विविधानि च।
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥ 2.3.47 ॥
अथाभिवाद्य राजानं रथमारुह्य राघवः।
ययौ स्वं द्युतिमद्वेश्म जनौधैः प्रतिपूजितः ॥ 2.3.48 ॥
ते चापि पौरा नृपतेर्वचस्तच्छ्रुत्वा तदालाभमिवेष्टमाशु।
नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान् समानर्चुरभिप्रहृष्टाः ॥ 2.3.49 ॥