ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः।
हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥ 2.2.1 ॥
दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना।
स्वरेण महता राजा जीमूत इव नादयन् ॥ 2.2.2 ॥
राजलक्षणयुक्तेन कान्तेनानुपमेन च।
उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥ 2.2.3 ॥
विदितं भवतामेतद्यथा मे राज्यमुत्तमम्।
पूर्वकैर्मम राजेन्द्रैः सुतवत्परिपालितम् ॥ 2.2.4 ॥
सोऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम्।
श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥ 2.2.5 ॥
मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता।
प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥ 2.2.6 ॥
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्।
पाण्डरस्यातपत्रस्य च्छायायां जरितं मया ॥ 2.2.7 ॥
प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः।
जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥ 2.2.8 ॥
राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः।
पिरश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥ 2.2.9 ॥
सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते।
सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥ 2.2.10 ॥
अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः।
पुरन्दरसमो वीर्ये रामः परपुरञ्जयः ॥ 2.2.11 ॥
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्।
यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥ 2.2.12 ॥
अनुरूपः स वै नाथो लक्ष्मीवाल्लँक्ष्मणाग्रजः।
त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥ 2.2.13 ॥
अनेन श्रेयसा सद्यः संयोज्यैवमिमां महीम्।
गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥ 2.2.14 ॥
यदीदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम्।
भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥ 2.2.15 ॥
यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम्।
अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥ 2.2.16 ॥
इति ब्रूवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम्।
वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥ 2.2.17 ॥
स्निग्धोनुनादी सञ्जज्ञे तत्र हर्षसमीरितः।
जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ॥ 2.2.18 ॥
तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः।
ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥ 2.2.19 ॥
समेत्य मन्त्रयित्वा तु समताङ्गतबुद्ध्यः।
ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ॥ 2.2.20 ॥
अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव।
स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥ 2.2.21 ॥
इच्छामो हि महाबाहुं रघुवीरं महाबलम्।
गजेन महतायान्तं रामं छत्रावृताननम् ॥ 2.2.22 ॥
इति तद्वचनं श्रुवा राजा तेषां मनः प्रियम्।
अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ 2.2.23 ॥
श्रुत्वैव वनचं यन्मे राघवं पतिमिच्छथ।
राजानः संशयोऽयं मे किमिदं ब्रूत तत्त्वतः ॥ 2.2.24 ॥
कथं नु मयि धर्मेण पृथिवीमनुशासति।
भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥ 2.2.25 ॥
ते तमूचुर्महात्मानं पौरजानपदैः सह।
बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥ 2.2.26 ॥
गुणान् गुणवतो देव देवकल्पस्य धीमतः।
प्रियानानन्दनान् कृत्स्नान् प्रवक्षामोऽद्य तान् श्रृणु ॥ 2.2.27 ॥
दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः।
इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते ॥ 2.2.28 ॥
रामः सत्पुरुषो लोके सत्यधर्मपरायणः।
साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥ 2.2.29 ॥
प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः।
बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥ 2.2.30 ॥
धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः।
क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ॥ 2.2.31 ॥
मुदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ॥ 2.2.32 ॥
प्रियवादी च भूतानां सत्यवादी च राघवः।
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ 2.2.33 ॥
तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्द्धते।
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ 2. 2. 34 ॥
सम्यग्विद्याव्रतस्नातो यथावत् साङ्गवेदवित् ॥ 2. 2. 35 ॥
गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः।
कल्याणाभिजनः साधुरदीनात्मा महामतिः ॥ 2. 2. 36 ॥
द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ॥ 2. 2. 37 ॥
यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा।
गत्वा सौमित्रिसहितो नाविजित्य निवर्त्तते ॥ 2. 2. 38 ॥
सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा।
पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति ॥ 2. 2. 39 ॥
पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च।
निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ॥ 2. 2. 40 ॥
शुश्रूषन्ते च वः शिष्याः कच्चित् कर्मसु दंशिताः।
इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ॥ 2. 2. 41 ॥
व्यसनेषु मनुष्याणां भृशं भवति दुःखितः।
उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ 2.2.42 ॥
सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः।
स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ॥ 2.2.43 ॥
सम्यग्योक्ता श्रेयसां च न विगृह्यकथारुचिः।
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ 2.2.44 ॥
सुभ्रूरायतताम्राक्षः साक्षाद्विष्णुरिव स्वयम्।
रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ॥ 2.2.45 ॥
प्रजापालनतत्त्वज्ञो न रागोपहतेन्द्रियः।
शक्तस्त्रैलोक्यमप्येको भोक्तुं किन्नु महीमिमाम् ॥ 2.2.46 ॥
नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन।
हन्त्येव नियमाद्वध्यान्न वध्ये न च कुप्यति ॥ 2.2.47 ॥
शान्तैः सर्वप्रजाकान्तैः प्रीतिसञ्जननैर्नृणाम्।
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः** ॥ 2.2.48 ॥
तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम्।
लोकपालोपमं नाथमकामयत मेदिनी** ॥ 2.2.49 ॥
वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव।
दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः** ॥ 2.2.50 ॥
बलमारोग्यमायुश्च रामस्य विदितात्मनः।
देवासुरमनुष्येषु सगन्धर्वोरगेषु च** ॥ 2.2.51 ॥
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा।
आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः** ॥ 2.2.52 ॥
स्त्रियो वृद्धास्तरुण्यश्च सायम्प्रातः समाहिताः।
सर्वान् देवान्नमस्यन्ति रामस्यार्थे यशस्विनः** ॥ 2.2.53 ॥
तेषामायाचितं देव त्वत्प्रसादात्समृद्ध्यताम्** ॥ 2.2.54 ॥
राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्।
पश्यामो यौव राज्यस्थं तव राजोत्तमात्मजम्** ॥ 2.2.55 ॥
तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम्।
हिताय नः क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं वरद त्वमर्हसि** ॥ 2.2.56 ॥