००१ रामगुणवर्णनम्

गच्छता मातुलकुलं भरतेन तदानघः।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥ 2.1.1 ॥
स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः।
मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥ 2.1.2 ॥
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः।
भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥ 2.1.3 ॥
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ।
उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥ 2.1.4 ॥
सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः।
स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥ 2.1.5 ॥
तेषामपि महातेजा रामो रतिकरः पितुः।
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥ 2.1.6 ॥
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः।
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥ 2.1.7 ॥
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा।
यथा वरेण देवानामदितिर्वज्रपाणिना ॥ 2.1.8 ॥
स हि रूपोपपन्नश्च वीर्य्यवाननसूयकः।
भूमावनुपमः सूनुर्गुणैर्दशरथोपमः ॥ 2.1.9 ॥
स तु नित्यं प्रशान्तात्मा मृदुपूर्वं प्रभाषते।
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ 2.1.10 ॥
कथञ्चिदुपकारेण कृतेनैकेन तुष्यति।
न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥ 2.1.11 ॥
शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः।
कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ॥ 2.1.12 ॥
बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियम्वदः।
वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥ 2.1.13 ॥
न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः।
अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरञ्जते ॥ 2.1.14 ॥
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः।
दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः ॥ 2.1.15 ॥
कुलोचितमतिः क्षात्रं धर्मं स्वं बहु मन्यते।
मन्यते परया कीर्त्या महत् स्वर्गफलं ततः ॥ 2.1.16 ॥
नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः।
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ 2.1.17 ॥
अरोगस्तरुणो वाग्ग्मी वपुष्मान् देशकालवित्।
लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ॥ 2.1.18 ॥
स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः।
बहिश्चरः इव प्राणो बभूव गुणतः प्रियः ॥ 2.1.19 ॥
सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित्।
इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥ 2.1.20 ॥
कल्याणाभिजनः साधुरदीनः सत्यवागृजुः।
वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥ 2.1.21 ॥
धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्।
लौकिके समयाचारे कृतकल्पो विशारदः ॥ 2.1.22 ॥
निभृतः संवृताकारो गुप्तमन्त्रः सहायवान्।
अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥ 2.1.23 ॥
दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः।
निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥ 2.1.24 ॥
शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः।
यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥ 2.1.25 ॥
सत्सङ्ग्रहप्रग्रहणे स्थानविन्निग्रहस्य च।
आयकर्मण्युपायज्ञः सन्दृष्टव्ययकर्मवित् ॥ 2.1.26 ॥
श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च।
अर्थधर्मौ च सङ्गृह्य सुखतन्त्रो न चालसः ॥ 2.1.27 ॥
वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित्।
आरोहे विनये चैव युक्तो वारणवाजिनाम् ॥ 2.1.28 ॥
अभियाता प्रहर्त्ता च सेनानयविशारदः।
अप्रधृष्यश्च सङ्ग्रामे क्रुद्धैरपि सुरासुरैः ॥ 2.1.29 ॥
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी।
न चावमन्ता भूतानां न च कालवशानुगः ॥ 2.1.30 ॥
सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः।
बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ 2.1.31 ॥
तथा सर्वप्रजाकान्तैः प्रीतिसञ्जननैः पितुः।
गुणैर्विरुरुचे रामो दीप्तः सूय इवांशुभिः ॥ 2.1.32 ॥
तमेवं व्रतसम्पन्नमप्रधृष्यपराक्रमम्।
लोकपालोपमं नाथमकामयत मेदिनी ॥ 2.1.33 ॥
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम्।
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः ॥ 2.1.34 ॥
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः।
प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥ 2.1.35 ॥
एषा ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते।
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ 2.1.36 ॥
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः।
मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥ 2.1.37 ॥
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ।
महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ॥ 2.1.38 ॥
महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्।
अनेन वयसा दृष्ट्वा यथास्वर्गमवाप्नुयाम् ॥ 2.1.39 ॥
इत्येतैर्विविदैस्तैस्तैरन्यपार्थिवदुर्लभैः।
शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः ॥ 2.1.40 ॥
तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः।
निश्चित्य सचिवैः सार्द्धं युवराजममन्यत ॥ 2.1.41 ॥
दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम्।
सञ्चचक्षे च मेधावी शरीरे चात्मनो जराम् ॥ 2.1.42 ॥
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः।
लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः ॥ 2.1.43 ॥
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च।
प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान्नृपः ॥ 2.1.44 ॥
नानानगरवास्तव्यान् पृथग्जानपदानपि।
समानिनाय मेदन्याः प्रधानान् पृथिवीपतीन् ॥ 2.1.45 ॥
न तु केकयराजानं जनकं वा नराधिपः।
त्वरया चानयामास पश्चातौ श्रोष्यतः प्रियम् ॥ 2.1.46 ॥
तान् वेश्म नानाभरणैर्यथार्हं प्रतिपूजितान्।
ददर्शालङ्कृतो राजा प्रजापतिरिव प्रजाः ॥ 2.1.47 ॥
अथोपविष्टे नृपतौ तस्मिन् परबलार्दने।
ततः प्रविविशुः शेषा राजानो लोकसम्मताः ॥ 2.1.48 ॥
अथ राजवितीर्णेषु विविधेष्वासनेषु च।
राजानमेवाभिमुखा निषेदुर्नियता नृपाः ॥ 2.1.49 ॥
स लब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः।
उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः ॥ 2.1.50 ॥