०७७ दशरथाद्ययोध्यागमनम्

गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः।
वरुणायाप्रमेयाय ददौ हस्ते ससायकम् ॥ 1.77.1 ॥
अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन्।
पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ॥ 1.77.2 ॥
जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी।
अयोध्याभिमुखी सेना त्वया नाथेन पालिता ॥ 1.77.3 ॥
रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्।
बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् ॥ 1.77.4 ॥
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ॥ 1.77.5 ॥
पुनर्जातं तदा मेने पुत्रमात्मानमेव च।
चोदयामास तां सेनां जगामाशु ततः पुरीम् ॥ 1.77.6 ॥
पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम्।
सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् ॥ 1.77.7 ॥
राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः।
सम्पूर्णां प्राविशद्राजा जनौघैः समलङ्कृताम् ॥ 1.77.8 ॥
पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः।
पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः ॥ 1.77.9 ॥
प्रविवेश गृहं राजा हिमवत्सदृशं पुनः।
ननन्द सजनो राजा गृहे कामैः सुपूजितः ॥ 1.77.10 ॥
कौसल्या च सुमित्रा च कैकयी च सुमध्यमा।
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ॥ 1.77.11 ॥
ततः सीतां महाभागामूर्मिलां च यशस्विनीम्।
कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ॥ 1.77.12 ॥
मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः।
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् ॥ 1.77.13 ॥
अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा।
रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ॥ 1.77.14 ॥
कृतदाराः कृतास्त्रा श्च सधनाः ससुहृज्जनाः।
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ॥ 1.77.15 ॥
कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्।
भरतं कैकयीपुत्रमब्रवीद्रघुनन्दनः ॥ 1.77.16 ॥
अयं केकयराजस्य पुत्रो वसति पुत्रक।
त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव ॥ 1.77.17 ॥
श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः।
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ॥ 1.77.18 ॥
आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्।
मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ॥ 1.77.19 ॥
गते च भरते रामो लक्ष्मणश्च महाबलः।
पितरं देवसङ्काशं पूजयामासतुस्तदा ॥ 1.77.20 ॥
पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः।
चकार रामो धर्मात्मा प्रियाणि च हितानि च ॥ 1.77.21 ॥
मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः।
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत ॥ 1.77.22 ॥
एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तदा।
रामस्य शीलवृत्तेन सर्वे विषयवासिनः ॥ 1.77.23 ॥
तेषामतियशा लोके रामः सत्यपराक्रमः।
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥ 1.77.24 ॥
रामस्तु सीतया सार्द्धं विजहार बहूनृतून्।
मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः ॥ 1.77.25 ॥
प्रिया तु सीता रामस्य दाराः पितृकृता इति।
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्द्धत ॥ 1.77.26 ॥
तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते।
अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा ॥ 1.77.27 ॥
तस्य भूयो विशेषेण मैथिली जनकात्मजा।
देवताभिः समा रूपे सीता श्रीरिव रूपिणी ॥ 1.77.28 ॥
तया स राजर्षिसुतोऽभिरामया समेयिवानुत्तमराजकन्यया।
अतीव रामः शुशुभेऽतिकामया विभुः श्रिया विष्णुरिवामरेश्वरः ॥ 1.77.29 ॥