०७६ जामदग्न्यपराजयः

श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा।
गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ॥ 1.76.1 ॥
श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव।
अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ॥ 1.76.2 ॥
वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव।
अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम् ॥ 1.76.3 ॥
इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम्।
शरं च प्रति जग्राह हस्ताल्लघुपराक्रमः ॥ 1.76.4 ॥
आरोप्य स धनू रामश्शरं सज्यं चकार ह।
जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः ॥ 1.76.5 ॥
ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च।
तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ॥ 1.76.6 ॥
इमां पादगतिं राम तपोबलसमार्जितान्।
लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ॥ 1.76.7 ॥
न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः।
मोघः पतति वीर्येण बलदर्पविनाशनः ॥ 1.76.8 ॥
वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः।
पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ॥ 1.76.9 ॥
गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः।
यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ॥ 1.76.10 ॥
जडीकृते तदा लोके रामे वरधनुर्द्धरे।
निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत ॥ 1.76.11 ॥
तेजोऽभिहतवीर्यत्वाज्जामदग्न्यो जडीकृतः।
रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥ 1.76.12 ॥
काश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा।
विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत् ॥ 1.76.13 ॥
सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम्।
कृता प्रतिज्ञा काकुत्स्थ कृता भूः काश्यपस्य हि ॥ 1.76.14 ॥
तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघव।
मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ 1.76.15 ॥
लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया।
जहि तान् शरमुख्येन माभूत्कालस्य पर्ययः ॥ 1.76.16 ॥
अक्षयं मधुहन्तारं जानामि त्वां सुरोत्तमम्।
धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परन्तप ॥ 1.76.17 ॥
एते सुरगणाः सर्वे निरीक्षन्ते समागताः।
त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ 1.76.18 ॥
न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति।
त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥ 1.76.19 ॥
शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत।
शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ 1.76.20 ॥
तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान्।
रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् ॥ 1.76.21 ॥
स हतान् दृश्य रामेण स्वान् लोकान् तपसार्जितान्।
जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ॥ 1.76.22 ॥
ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा।
सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ॥ 1.76.23 ॥
रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च।
ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ॥ 1.76.24 ॥