०७५ शिवधनुर्वृत्तान्तम्

राम दाशरथे राम वीर्यं ते श्रूयतेऽद्भुतम्।
धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥ 1.75.1 ॥
तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया।
तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्य परं शुभम् ॥ 1.75.2 ॥
तदिदं घोरसङ्काशं जामदग्न्यं महद्धनुः।
पूरयस्व शरेणैव स्वबलं दर्शयस्व च ॥ 1.75.3 ॥
तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे।
द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यस्य राघव ॥ 1.75.4 ॥
तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा।
विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥ 1.75.5 ॥
क्षत्ररोषात् प्रशान्तस्त्वं ब्राह्मणश्च महायशाः।
बालानां मम पुत्राणामभयं दातुमर्हसि ॥ 1.75.6 ॥
भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम्।
सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि ॥ 1.75.7 ॥
स त्वं धर्मपरो भूत्वा काश्यपाय वसुन्धराम्।
दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः ॥ 1.75.8 ॥
मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने।
न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥ 1.75.9 ॥
ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान्।
अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ॥ 1.75.10 ॥
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते।
दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥ 1.75.11 ॥
अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे।
त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ॥ 1.75.12 ॥
तदिदं वैष्णवं राम धनुः परमभास्वरम्।
समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् ॥ 1.75.13 ॥
तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम्।
शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया ॥ 1.75.14 ॥
अभिप्रायं तु विज्ञाय देवतानां पितामहः।
विरोधं जनयामास तयोः सत्यवतां वरः ॥ 1.75.15 ॥
विरोधे च महद्युद्धमभवद्रोमहर्षणम्।
शितिकण्ठस्य विष्णोश्च परस्परजिगीषिणोः ॥ 1.75.16 ॥
तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम्।
हुङ्कारेण महादेवः स्तम्भितोऽथ त्रिलोचनः ॥ 1.75.17 ॥
देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः।
याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ॥ 1.75.18 ॥
जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः।
अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ॥ 1.75.19 ॥
धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः।
देवरातस्य राजर्षेर्ददौ हस्ते ससायकम् ॥ 1.75.20 ॥
इदं च वैष्णवं राम धनुः परपुरञ्जयम्।
ऋचीके भार्गवे प्रादाद्विष्णुः सन्न्यासमुत्तमम् ॥ 1.75.21 ॥
ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः।
पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ॥ 1.75.22 ॥
न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते।
अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः ॥ 1.75.23 ॥
वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम्।
क्षत्रमुत्सादयन् रोषाज्जातं जातमनेकशः ॥ 1.75.24 ॥
पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने।
यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे ॥ 1.75.25 ॥
दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः।
श्रुतवान् धनुषो भेदं ततोऽहं द्रुतमागतः ॥ 1.75.26 ॥
तदिदं वैष्णवं राम पितृपैतामहं महत्।
क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ॥ 1.75.27 ॥
योजयस्व धनुश्श्रेष्ठे शरं परपुरञ्जयम्।
यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ॥ 1.75.28 ॥