अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः।
आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ॥ 1.74.1 ॥
विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम्।
आपृष्ट्वाथ जगामाशु राजा दशरथः पुरीम् ॥ 1.74.2 ॥
गच्छन्तं तं तु राजानमन्वगच्छन्नराधिपः ॥ 1.74.3 ॥
अथ राजा विदेहानां ददौ कन्याधनं बहु ॥ 1.74.4 ॥
गवां शतसहस्राणि बहूनि मिथिलेश्वरः।
कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च ॥ 1.74.5 ॥
हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम्।
ददौ कन्यापिता तासां दासीदासमनुत्तमम् ॥ 1.74.6 ॥
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च।
ददौ परमसंहृष्टः कन्याधनमनुत्तमम् ॥ 1.74.7 ॥
दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम्।
प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ॥ 1.74.8 ॥
राजाप्ययोध्याधिपतिस्सह पुत्रैर्महात्मभिः।
ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः ॥ 1.74.9 ॥
घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः।
भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥ 1.74.10 ॥
तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ॥ 1.74.11 ॥
असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः।
किमिदं हृदयोत्कम्पि मनो मम विषीदति ॥ 1.74.12 ॥
राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः।
उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् ॥ 1.74.13 ॥
उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम्।
मृगाः प्रशमयन्त्येते सन्तापस्त्यज्यतामयम् ॥ 1.74.14 ॥
तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह।
कम्पयन् पृथिवीं सर्वां पातयंश्च द्रुमान् शुभान् ॥ 1.74.15 ॥
तमसा संवृतः सूर्यः सर्वा न प्रबभुर्दिशः।
भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम् ॥ 1.74.16 ॥
वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा।
ससञ्ज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् ॥ 1.74.17 ॥
तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः।
ददर्श भीमसङ्काशं जटामण्डलधारिणम् ॥ 1.74.18 ॥
भार्गवं जामदग्न्यं तं राजराजविमर्दिनम्।
कैलासमिव दुर्द्धर्षं कालाग्निमिव दुस्सहम् ॥ 1.74.19 ॥
स्कन्धे चासाद्य परशुं धनुर्विद्युद्गणोपमम्।
प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा शिवम् ॥ 1.74.20 ॥
तं दृष्ट्वा भीमसङ्काशं ज्वलन्तमिव पावकम्।
वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ॥ 1.74.21 ॥
सङ्गता मुनयः सर्वे सञ्जजल्पुरथो मिथः।
कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ॥ 1.74.22 ॥
पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः।
क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥ 1.74.23 ॥
एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम्।
ऋषयो राम रामेति वचो मधुरमब्रुवन् ॥ 1.74.24 ॥
प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्।
रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥ 1.74.25 ॥