यस्मिंस्तु दवसे राजा चक्रे गोदानमुत्तमम्।
तस्मिंस्तु दिवसे शूरो युधाजित् समुपेयिवान् ॥ 1.73.1 ॥
पुत्रः केकय राजस्य साक्षाद्भरतमातुलः।
दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥ 1.73.2 ॥
केकयाधिपती राजा स्नेहात्कुशलमब्रवीत्।
येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम् ॥ 1.73.3 ॥
स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः।
तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ॥ 1.73.4 ॥
मिथिलामुपयातांस्तु त्वया सह महीपते।
त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम् ॥ 1.73.5 ॥
अथ राजा दशरथः प्रियातिथिमुपस्थितम्।
दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत् ॥ 1.73.6 ॥
प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित्।
ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥ 1.73.7 ॥
भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः।
वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि ॥ 1.73.8 ॥
वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ॥ 1.73.9 ॥
राजा दशरथो राजन् कृतकौतुकमङ्गलैः।
पुत्रैर्नरवरश्रेष्ठ दातारमभिकाङ्क्षते ॥ 1.73.10 ॥
दातृप्रतिगृहीतृभ्यां सर्वार्थाः प्रभवन्ति हि।
स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥ 1.73.11 ॥
इत्युक्तः परमोदारो वसिष्ठेन महात्मना।
प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ॥ 1.73.12 ॥
कः स्थितः प्रतिहारो मे कस्याज्ञा सम्प्रतीक्षते।
स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ॥ 1.73.13 ॥
कृतकौतुकसर्वस्वा वेदिमूलमुपागताः।
मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः ॥ 1.73.14 ॥
सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः।
अविघ्नं कुरु तां राजा किमर्थमवलम्बते ॥ 1.73.15 ॥
तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा।
प्रवेशयामास सुतान् सर्वानृषिगणानपि ॥ 1.73.16 ॥
कारयस्व ऋषे सर्वामृषिभिः सहधार्मिक।
रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो ॥ 1.73.17 ॥
तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः।
विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम् ॥ 1.73.18 ॥
प्रपामध्ये तु विधिवद्वेदिं कृत्वा महातपाः।
अलञ्चकार तां वेदिं गन्धपुष्पैः समन्ततः ॥ 1.73.19 ॥
सुवर्णपालिकाभिश्च छिद्रकुम्भैश्च साङ्कुरैः।
अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः ॥ 1.73.20 ॥
शङ्खपात्रैः स्रुवैः स्रुग्भिः पात्रैरर्घ्याभिपूरितैः।
लाजपूर्णेश्च पात्रीभिरक्षतैरभिसंस्कृतैः ॥ 1.73.21 ॥
अग्निमाधाय वेद्यां तु विधिमन्त्रपुरस्कृतम्।
जुहावाग्नौ महातेजा वसिष्ठो भगवानृषिः ॥ 1.73.22 ॥
समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा।
अब्रवीज्जनको राजा कौसल्यानन्दवर्द्धनम् ॥ 1.73.23 ॥
इयं सीता मम सुता सहधर्मचरी तव।
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना ॥ 1.73.24 ॥
पतिव्रता महाभागा छायेवानुगता सदा।
इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा ॥ 1.73.25 ॥
साधु साध्विति देवानामृषीणां वदतां तदा।
देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत् ॥ 1.73.26 ॥
एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम्।
अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः ॥ 1.73.27 ॥
लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया।
प्रतीच्छ पाणिं गृह्णीष्व माभूत्कालस्य पर्ययः ॥ 1.73.28 ॥
तमेवमुक्त्वा जनको भरतं चाभ्यभाषत।
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ॥ 1.73.29 ॥
शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः।
श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना ॥ 1.73.30 ॥
सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः।
पत्नीभिः सन्तु काकुत्स्था माभूत्कालस्य पर्ययः ॥ 1.73.31 ॥
जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन्।
चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः ॥ 1.73.32 ॥
ऋषींश्चैव महात्मानः सभार्या रघुसत्तमाः।
यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम् ॥ 1.73.33 ॥
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा।
दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः ॥ 1.73.34 ॥
ननृतुश्चाप्सरस्सङ्घा गन्धर्वाश्च जगुः कलम्।
विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥ 1.73.35 ॥
ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते।
त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ॥ 1.73.36 ॥
अथोपकार्यां जग्मुस्ते सभार्या रघुनन्दनाः।
राजाप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः ॥ 1.73.37 ॥