तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः।
उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥ 1.72.1 ॥
अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव।
इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन ॥ 1.72.2 ॥
सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा।
रामलक्ष्मणयो राजन् सीता चोर्मिलया सह ॥ 1.72.3 ॥
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम ॥ 1.72.4 ॥
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि।
सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ॥ 1.72.5 ॥
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः।
वरयामस्सुते राजंस्तयोरर्थे महात्मनोः ॥ 1.72.6 ॥
पुत्रा दशरथस्येमे रूपयौवनशालिनः।
लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः ॥ 1.72.7 ॥
उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम्।
इक्ष्वाकोः कुलमव्यग्रं भवतः पुण्यकर्मणः ॥ 1.72.8 ॥
विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा।
जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ ॥ 1.72.9 ॥
कुलं धन्यमिदं मन्ये येषां नो मुनिपुङ्गवौ।
सदृशं कुलसम्बन्धं यदाज्ञापयथस्स्वयम् ॥ 1.72.10 ॥
एवं भवतु भद्रं वः कुशध्वजसुते इमे।
पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ ॥ 1.72.11 ॥
एकाह्ना राजपुत्रीणां चतसॄणां महामुने।
पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ॥ 1.72.12 ॥
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः।
वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः ॥ 1.72.13 ॥
एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः।
उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ॥ 1.72.14 ॥
परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदा ॥ 1.72.15 ॥
यथा दशरथस्येयं तथायोध्या पुरी मम।
प्रभुत्वे नास्ति सन्देहो यथार्हं कर्तुमर्हथ ॥ 1.72.16 ॥
तथा ब्रुवति वैदेहे जनके रघुनन्दनः।
राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥ 1.72.17 ॥
युवामसङ्ख्येयगुणौ भ्रातरौ मिथिलेश्वरौ।
ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिताः ॥ 1.72.18 ॥
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम्।
श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत् ॥ 1.72.19 ॥
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा।
मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥ 1.72.20 ॥
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः।
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥ 1.72.21 ॥
गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः।
एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ॥ 1.72.22 ॥
सुवर्णशृङ्गाः सम्पन्नाः सवत्साः कांस्यदोहनाः।
गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥ 1.72.23 ॥
वित्तमन्यच्च सुबहुद्विजेभ्यो रघुनन्दनः।
ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥ 1.72.24 ॥
ससुतैः कृतगोदानैर्वृतस्तु नृपतिस्तदा।
लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः ॥ 1.72.25 ॥