०७१ जनककुलवर्णनम्

एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः।
श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् ॥ 1.71.1 ॥
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः।
वक्तव्यं कुलजातेन तन्निबोध महामुने ॥ 1.71.2 ॥
राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा।
निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥ 1.71.3 ॥
तस्य पुत्रो मिथिर्नाम मिथिला येन निर्मिता।
प्रथमो जनको नाम जनकादप्युदावसुः ॥ 1.71.4 ॥
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्द्धनः।
नन्दिवर्द्धनपुत्रस्तु सुकेतुर्नाम नामतः ॥ 1.71.5 ॥
सुकेतोरपि धर्मात्मा देवरातो महाबलः।
देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः ॥ 1.71.6 ॥
बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्।
महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः ॥ 1.71.7 ॥
सुधृतेरपि धर्मात्मा दृष्टकेतुः सुधार्मिकः।
दृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः ॥ 1.71.8 ॥
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतिन्धकः।
प्रतिन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥ 1.71.9 ॥
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः।
देवमीढस्य विबुधो विबुधस्य महीध्रकः ॥ 1.71.10 ॥
महीध्रकसुतो राजा कीर्तिरातो महाबलः।
कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ 1.71.11 ॥
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत।
स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत ॥ 1.71.12 ॥
तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः।
ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥ 1.71.13 ॥
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः।
कुशध्वजं समावेश्य भारं मयि वनं गतः ॥ 1.71.14 ॥
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्।
भ्रातरं देवसङ्काशं स्नेहात्पश्यन् कुशध्वजम् ॥ 1.71.15 ॥
कस्य चित्त्वथ कालस्य साङ्काश्यादगमत् पुरात्।
सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः ॥ 1.71.16 ॥
स च मे प्रेषयामास शैवं धनुरनुत्तमम्।
सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति ॥ 1.71.17 ॥
तस्याऽप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह।
स हतोऽभिमुखो राजा सुधन्वा तु मया रणे ॥ 1.71.18 ॥
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्।
साङ्काश्ये भ्रातरं वीरमभ्यषिञ्चं कुशध्वजम् ॥ 1.71.19 ॥
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने।
ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव ॥ 1.71.20 ॥
सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च ॥ 1.71.21 ॥
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम्।
द्वितीयामूर्मिलां चैव त्रिर्ददामि न संशयः ॥ 1.71.22 ॥
रामलक्ष्मणयो राजन् गोदानं कारयस्व ह।
पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ॥ 1.71.23 ॥
फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु।
रामलक्ष्मणयो राजन् दानं कार्यं सुखोदयम् ॥ 1.71.24 ॥