ततः प्रभाते जनकः कृतकर्मा महर्षिभिः।
उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥ 1.70.1 ॥
भ्राता मम महातेजा यवीयानतिधार्मिकः।
कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥ 1.70.2 ॥
वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्।
साङ्काश्यां पुण्यसङ्काशां विमानमिव पुष्पकम् ॥ 1.70.3 ॥
तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः।
प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥ 1.70.4 ॥
शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः।
समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥ 1.70.5 ॥
आज्ञयाथ नरेन्द्रस्य आजगाम कुशध्वजः।
स ददर्श महात्मानं जनकं धर्मवत्सलम् ॥ 1.70.6 ॥
सोऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम्।
राजार्हं परमं दिव्यमासनं चाध्यरोहत ॥ 1.70.7 ॥
उपविष्टाबुभौ तौ तु भ्रातरावतितेजसौ।
प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् ॥ 1.70.8 ॥
गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम्।
आत्मजैः सह दुर्द्धर्षमानयस्व समन्त्रिणम् ॥ 1.70.9 ॥
औपकार्य्यं स गत्वा तु रघूणां कुलवर्द्धनम्।
ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् ॥ 1.70.10 ॥
अयोध्याधिपते वीर वैदेहो मिथिलाधिपः।
स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् ॥ 1.70.11 ॥
मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा।
सबन्धुरगमत्तत्र जनको यत्र वर्तते ॥ 1.70.12 ॥
स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः।
वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ॥ 1.70.13 ॥
विदितं ते महाराज इक्ष्वाकुकुलदैवतम्।
वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः ॥ 1.70.14 ॥
विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः।
एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ॥ 1.70.15 ॥
तूष्णीम्भूते दशरथे वसिष्ठो भगवानृषिः।
उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम् ॥ 1.70.16 ॥
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः।
तस्मान्मरीचिः सञ्जज्ञे मरीचेः काश्यपः सुतः ॥ 1.70.17 ॥
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः।
मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ 1.70.18 ॥
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्।
इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः ॥ 1.70.19 ॥
कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत।
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ॥ 1.70.20 ॥
बाणस्य तु महातेजा अनरण्यः प्रतापवान्।
अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोः सुतः ॥ 1.70.21 ॥
त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः।
यौवनाश्वसुतस्त्वासीन्मान्धाता पृथिवीपतिः ॥ 1.70.22 ॥
मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत।
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥ 1.70.23 ॥
यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः।
भरतात्तु महातेजा असितो नाम जातवान् ॥ 1.70.24 ॥
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः।
हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ 1.70.25 ॥
तांस्तु स प्रतियुद्ध्यन् वै युद्धे राजा प्रवासितः ॥ 1.70.26 ॥
हिमवन्तमुपागम्य भृगुप्रस्रवणेऽवसत्।
असितोऽल्पबलो राजा मन्त्रिभिः सहितस्तदा ॥ 1.70.27 ॥
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम्।
एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ 1.70.28 ॥
ततः शैलवरं रम्यं बभूवाभिरतो मुनिः।
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ॥ 1.70.29 ॥
तत्रैका तु महाभागा भार्गवं देववर्चसम्।
ववन्दे पद्मपत्राक्षी काङ्क्षन्तीं सुतमात्मनः ॥ 1.70.30 ॥
तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥ 1.70.31 ॥
स तामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि ॥ 1.70.32 ॥
महावीर्यो महातेजा अचिरात् सञ्जनिष्यति।
गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे ॥ 1.70.33 ॥
च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता।
पतिशोकातुरा तस्मात् पुत्रं देवी व्यजायत ॥ 1.70.34 ॥
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया।
सह तेन गरेणैव जातः स सगरोऽभवत् ॥ 1.70.35 ॥
सगरस्यासमञ्जस्तु असमञ्जात्तथांशुमान्।
दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ 1.70.36 ॥
भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुतः ॥ 1.70.37 ॥
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः।
कल्माषपादो ह्यभवत्तस्माज्जातश्च शङ्खणः ॥ 1.70.38 ॥
शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः।
मरोः प्रशुश्रुकस्त्वासीदम्बरीषः पशुश्रुकात् ॥ 1.70.39 ॥
अम्बरीषस्य पुत्रोऽभून्नहुषः पृथिवीपतिः।
नहुषस्य ययातिश्च नाभागस्तु ययातिजः ॥ 1.70.40 ॥
नाभागस्य बभूवाज अजाद्दशरथोऽभवत्।
अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥ 1.70.41 ॥
आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्।
इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ॥ 1.70.42 ॥
रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप।
सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥ 1.70.43 ॥