०६९ जनक-दशरथ-संवादः

ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः।
राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् ॥ 1.69.1 ॥
अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्।
व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः ॥ 1.69.2 ॥
चतुरङ्गं बलं चापि शीघ्रं निर्यातु सर्वशः।
ममाज्ञासमकालं च यानयुग्यमनुत्तमम् ॥ 1.69.3 ॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः।
मार्कण्डेयः सुदीर्घायुर्ऋषिः कात्यायनस्तथा ॥ 1.69.4 ॥
एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे।
यथा कालात्ययो न स्याद्दूता हि त्वरयन्ति माम् ॥ 1.69.5 ॥
वचनात्तु नरेन्द्रस्य सा सेना चतुरङ्गिणी।
राजानमृषिभिः सार्द्धं व्रजन्तं पृष्ठतोऽन्वगात् ॥ 1.69.6 ॥
गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान्।
राजा तु जनकः श्रीमान् श्रुत्वा पूजामकल्पयत् ॥ 1.69.7 ॥
जनको मुदितो राजा हर्षं च परमं ययौ।
उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदान्वितः ॥ 1.69.8 ॥
स्वागतं ते महाराज दिष्ट्या प्राप्तोऽसि राघव।
पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् ॥ 1.69.9 ॥
दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः।
सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः ॥ 1.69.10 ॥
दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम्।
राघवैः सह सम्बन्धाद्वीर्यश्रेष्ठैर्महात्मभिः ॥ 1.69.11 ॥
श्वः प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुमर्हसि।
यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसम्मतम् ॥ 1.69.12 ॥
तस्य तद्वचनं श्रुत्या ऋषिमध्ये नराधिपः।
वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् ॥ 1.69.13 ॥
प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा।
यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम् ॥ 1.69.14 ॥
धर्मिष्ठं च यशस्यं च वचनं सत्यवादिनः।
श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः ॥ 1.69.15 ॥
ततः सर्वे मुनिगणाः परस्परसमागमे।
हर्षेण महता युक्तास्तां निशामवसन् सुखम् ॥ 1.69.16 ॥
राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः।
उवास परमप्रीतो जनकेनाभिपूजितः ॥ 1.69.17 ॥
जनकोऽपि महातेजाः क्रियां धर्मेण तत्त्ववित्।
यज्ञस्य च सुताभ्यां च कृत्वारात्रिमुवास ह ॥ 1.69.18 ॥