०६८ दशरथागतिः

जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः।
त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम् ॥ 1.68.1 ॥
ते राजवचनाद्दूता राजवेश्म प्रवेशिताः।
ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम् ॥ 1.68.2 ॥
बद्धाञ्जलिपुटाः सर्वे दूताविगतसाध्वसाः।
राजानं प्रयता वाक्यमब्रुवन् मधुराक्षरम् ॥ 1.68.3 ॥
मैथिलो जनको राजा साग्निहोत्रपुरस्कृतम्।
कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् ॥ 1.68.4 ॥
मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा।
जनकस्त्वां महाराजा पृच्छते सपुरःसरम् ॥ 1.68.5 ॥
पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः।
कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत् ॥ 1.68.6 ॥
पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा।
राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः ॥ 1.68.7 ॥
सेयं मम सुता राजन् विश्वामित्रपुरस्सरैः।
यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः ॥ 1.68.8 ॥
तच्च राजन् धनुर्दिव्यं मध्ये भग्नं महात्मना।
रामेण हि महाराज महत्यां जनसंसदि ॥ 1.68.9 ॥
अस्मै देया मया सीता वीर्यशुल्का महात्मने।
प्रतिज्ञां कर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥ 1.68.10 ॥
सोपाध्यायो महाराज पुरोहितपुरस्सरः।
शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ ॥ 1.68.11 ॥
प्रीतिं च मम राजेन्द्र निर्वर्तयितुमर्हसि।
पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे ॥ 1.68.12 ॥
एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्।
विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः ॥ 1.68.13 ॥
दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः।
वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत् ॥ 1.68.14 ॥
गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्द्धनः।
लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥ 1.68.15 ॥
दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना।
सम्प्रदानं सुतायास्तु राघवे कर्त्तुमिच्छति ॥ 1.68.16 ॥
यदि वो रोचते वृत्तं जनकस्य महात्मनः।
पुरीं गच्छामहे शीघ्रं माभूत्कालस्य पर्ययः ॥ 1.68.17 ॥
मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः।
सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मन्त्रिणः ॥ 1.68.18 ॥
मन्त्रिणस्तां नरेन्द्रस्य रात्रिं परमसत्कृताः।
ऊषुस्ते मुदिताः सर्वे गुणैः सर्वैस्समन्विताः ॥ 1.68.19 ॥