०६७ शिवधनुर्भङ्गः

जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः।
धनुर्दर्शय रामाय इति होवाच पार्थिवम् ॥ 1.67.1 ॥
ततः स राजा जनकः सामन्तान् व्यादिदेश ह।
धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम् ॥ 1.67.2 ॥
जनकेन समादिष्टाः सचिवाः प्राविशन् पुरीम्।
तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ॥ 1.67.3 ॥
नृणां शतानि पञ्चाशद्व्यायतानां महात्मनाम्।
मञ्जूषामष्टचक्रां तां समूहुस्ते कथञ्चन ॥ 1.67.4 ॥
तामादाय तु मञ्जूषामायसीं यत्र तद्धनुः।
सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः ॥ 1.67.5 ॥
इदं धनुर्वरं राजन् पूजितं सर्वराजभिः।
मिथिलाधिप राजेन्द्र दर्शनीयं यदिच्छसि ॥ 1.67.6 ॥
तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत।
विश्वामित्रं महात्मानं तौ चोभौ राजलक्ष्मणौ ॥ 1.67.7 ॥
इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम्।
राजभिश्च महावीर्यैरशक्तैः पूरितुं पुरा ॥ 1.67.8 ॥
नैतत् सुरगणाः सर्वे नासुरा न च राक्षसाः।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ 1.67.9 ॥
क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे।
आरोपणे समायोगे वेपने तोलनेऽपि वा ॥ 1.67.10 ॥
तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुङ्गव।
दर्शयैतन्महाभाग अनयो राजपुत्रयोः ॥ 1.67.11 ॥
विश्वामित्रः स धर्मात्मा श्रुत्वा जनकभाषितम्।
वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥ 1.67.12 ॥
महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः।
मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥ 1.67.13 ॥
इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना।
यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा ॥ 1.67.14 ॥
बाढमित्यब्रवीद्राजा मुनिश्च समभाषत ॥ 1.67.15 ॥
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः।
पश्यतां नृसहस्राणां बहूनां रघुनन्दनः ॥ 1.67.16 ॥
आरोपयित्वा धर्मात्मा पूरयामास तद्धनुः।
तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥ 1.67.17 ॥
तस्य शब्दो महानासीन्निर्घातसमनिस्वनः।
भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः ॥ 1.67.18 ॥
निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः।
वर्जयित्वा मुनविरं राजानं तौ च राघवौ ॥ 1.67.19 ॥
प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः।
उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम् ॥ 1.67.20 ॥
भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः।
अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया ॥ 1.67.21 ॥
जनकानां कुले कीर्तिमाहरिष्यति मे सुता।
सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥ 1.67.22 ॥
मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक।
सीता प्राणैर्बहुमता देया रामाय मे सुता ॥ 1.67.23 ॥
भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः।
मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥ 1.67.24 ॥
राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम।
प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः ॥ 1.67.25 ॥
मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै।
प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः ॥ 1.67.26 ॥
अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान्।
यथावृत्तं समाख्यातुमानेतुं च नृपं तदा ॥ 1.67.27 ॥