०६६ शिवधनुर्दर्शनम्

ततः प्रभाते विमले कृतकर्मा नराधिपः।
विश्वामित्रं महात्मानमाजुहाव सराघवम् ॥ 1.66.1 ॥
तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा।
राघवौ च महात्मानौ तदा वाक्यमुवाच ह ॥ 1.66.2 ॥
भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ।
भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम् ॥ 1.66.3 ॥
एवमुक्तस्तु धर्मात्मा जनकेन महात्मना।
प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः ॥ 1.66.4 ॥
पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ।
द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति ॥ 1.66.5 ॥
एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ।
दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥ 1.66.6 ॥
एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् ॥ 1.66.7 ॥
श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥ 1.66.8 ॥
देवरात इति ख्यातो निमेष्षष्ठो महीपतिः।
न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना ॥ 1.66.9 ॥
दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्।
रुद्रस्तु त्रिदशान् रोषात् सलीलमिदमब्रवीत् ॥ 1.66.10 ॥
यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः।
वराङ्गाणि महार्हाणि धनुषा शातयामि वः ॥ 1.66.11 ॥
ततो विमनसः सर्वे देवा वै मुनिपुङ्गव।
प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भवः ॥ 1.66.12 ॥
तदेतद्देवदेवस्य धनूरत्नं महात्मनः।
न्यासभूतं तदा न्यस्तमस्माकं पूर्वके विभो ॥ 1.66.13 ॥
अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता मया।
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ॥ 1.66.14 ॥
भूतलादुत्थिता सा तु व्यवर्द्धत ममात्मजा।
वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा ॥ 1.66.15 ॥
भूतला दुत्थितां तां तु वर्द्धमानां ममात्मजाम्।
वरयामासुरागम्य राजानो मुनिपुङ्गव ॥ 1.66.16 ॥
तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम्।
वीर्यशुल्केति भगवन् न ददामि सुतामहम् ॥ 1.66.17 ॥
ततः सर्वे नृपतयः समेत्य मुनिपुङ्गव।
मिथिलामभ्युपागम्य वीर्यजिज्ञासवस्तदा ॥ 1.66.18 ॥
तेषां जिज्ञासमानानां वीर्यं धनुरुपाहृतम्।
न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा ॥ 1.66.19 ॥
तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने।
प्रत्याख्याता नृपतयस्तन्निबोध तपोधन ॥ 1.66.20 ॥
ततः परमकोपेन राजानो नृपपुङ्गव।
न्यरुन्धन् मिथिलां सर्वे वीर्यसन्देहमागताः ॥ 1.66.21 ॥
आत्मानमवधूतं ते विज्ञाय नृपपुङ्गवाः।
रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम् ॥ 1.66.22 ॥
ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः।
साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः ॥ 1.66.23 ॥
ततो देवगणान् सर्वान् तपसाऽहं प्रसादयम्।
ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः ॥ 1.66.24 ॥
ततो भग्ना नृपतयो हन्यमाना दिशो ययुः।
अवीर्या वीर्यसन्दिग्धाः सामात्याः पापकर्मणः ॥ 1.66.25 ॥
तदेतन्मुनिशार्दूल धनुः परमभास्वरम्।
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत ॥ 1.66.26 ॥
यद्यस्य धनुषो रामः कुर्यादारोपणं मुने।
सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥ 1.66.27 ॥