०६५ विश्वामित्र-ब्रह्मर्षित्व-प्राप्तिः

अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः।
पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥ 1.65.1 ॥
मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्।
चकाराप्रतिमं राम तपः परमदुष्करम् ॥ 1.65.2 ॥
पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्।
विघ्नैर्बहुभि राधूतं क्रोधो नान्तरमाविशत् ॥ 1.65.3 ॥
स कृत्वा निश्चयं राम तप आतिष्ठदव्ययम् ॥ 1.65.4 ॥
भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम।
इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ॥ 1.65.5 ॥
निःशेषितेऽन्ने भगवानभुक्त्वैव महातपाः।
न किञ्चिदवदद्विप्रं मौनव्रतमुपस्थितः ॥ 1.65.6 ॥
अथ वर्षसहस्रं वै नोच्छ्वसन् मुनिपुङ्गवः ॥ 1.65.7 ॥
तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत।
त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत् ॥ 1.65.8 ॥
मोहितास्तेजसा तस्य तपसा मन्दरश्मयः।
कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ॥ 1.65.9 ॥
लोभितः क्रोधितश्चैव तपसा चाभिवर्द्धते।
न ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ ॥ 1.65.10 ॥
न दीयते यदि त्वस्य मनसा यदभीप्सितम्।
विनाशयति त्रैलोक्यं तपसा सचराचरम् ॥ 1.65.11 ॥
व्याकुलाश्च दिशः सर्वा न च किञ्चित्प्रकाशते।
सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ॥ 1.65.12 ॥
प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः।
ब्रह्मन्न प्रतिजानीमो नास्तिको जायते जनः ॥ 1.65.13 ॥
सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम्।
भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ॥ 1.65.14 ॥
बुद्धिं न कुरुते यावन्नाशे देव महामुनिः।
तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः ॥ 1.65.15 ॥
कालाग्निना यथा पूर्वं त्रैलाक्यं दह्यतेऽखिलम्।
देवराज्यं चिकीर्षेत दीयतामस्य यन्मतम् ॥ 1.65.16 ॥
विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन्।
ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ॥ 1.65.17 ॥
दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः।
स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् ॥ 1.65.18 ॥
पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम्।
कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ॥ 1.65.19 ॥
ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च।
ओङ्कारश्च वषट्कारो वेदाश्च वरयन्तु माम् ॥ 1.65.20 ॥
ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः।
यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ॥ 1.65.21 ॥
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः।
सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ॥ 1.65.22 ॥
ब्रह्मर्षिस्त्वं न सन्देहः सर्वं सम्पत्स्यते तव।
इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ॥ 1.65.23 ॥
एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः।
एष धर्मपरो नित्यं वीर्यस्यैष परायणम् ॥ 1.65.24 ॥
एवमुक्त्वा महातेजा विरराम द्विजोत्तमः ॥ 1.65.25 ॥
शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ।
जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम् ॥ 1.65.26 ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव।
यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक ॥ 1.65.27 ॥
पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने।
गुणा बहुविधाः प्राप्तास्तव सन्दर्शनान्मया ॥ 1.65.28 ॥
विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत्तपः।
श्रुतं मया महातेजो रामेण च महात्मना ॥ 1.65.29 ॥
सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ॥ 1.65.30 ॥
अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम्।
अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ॥ 1.65.31 ॥
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो।
कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ॥ 1.65.32 ॥
श्वःप्रभाते महातेजो द्रष्टुमर्हसि मां पुनः।
स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥ 1.65.33 ॥
एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम्।
विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ॥ 1.65.34 ॥
एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः।
प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः ॥ 1.65.35 ॥
विश्वामित्रोऽपि धर्मात्मा सरामः सहलक्ष्मणः।
स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः ॥ 1.65.36 ॥