०६४ रम्भा-शाप-प्राप्तिः

सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया।
लोभनं कौशिकस्येह काममोहसमन्वितम् ॥ 1.64.1 ॥
तथोक्ता साप्सरा राम सहस्राक्षेण धीमता।
व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ॥ 1.64.2 ॥
अयं सुरपते घोरो विश्वामित्रो महामुनिः।
क्रोधमुत्सृजते घोरं मयि देव न संशयः ॥ 1.64.3 ॥
एवमुक्तस्तया राम रम्भया भीतया तदा।
तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् ॥ 1.64.4 ॥
मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् ॥ 1.64.5 ॥
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे।
अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः ॥ 1.64.6 ॥
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्।
तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् ॥ 1.64.7 ॥
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्।
लोभयामास ललिता विश्वामित्रं शुचिस्मिता ॥ 1.64.8 ॥
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्।
सम्प्रहृष्टेन मनसा तत एनामुदैक्षत ॥ 1.64.9 ॥
अथ तस्य च शब्देन गीतेनाप्रतिमेन च।
दर्शनेन च रम्भाया मुनिः सन्देहमागतः ॥ 1.64.10 ॥
सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुङ्गवः।
रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ॥ 1.64.11 ॥
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्।
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥ 1.64.12 ॥
ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः।
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् ॥ 1.64.13 ॥
एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः।
अशक्नुवन् धारयितुं क्रोधं सन्तापमागतः ॥ 1.64.14 ॥
तस्य शापेन महता रम्भा शैली तदाभवत् ॥ 1.64.15 ॥
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ॥ 1.64.16 ॥
कोपेन सुमहातेजास्तपोपहरणे कृते।
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः ॥ 1.64.17 ॥
बभूवास्य मनश्चिन्ता तपोपहरणे कृते ॥ 1.64.18 ॥
नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन।
अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि ॥ 1.64.19 ॥
तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम्।
अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः ॥ 1.64.20 ॥
न हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः ॥ 1.64.21 ॥
एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गवः।
चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन ॥ 1.64.22 ॥