पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्।
अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः ॥ 1.63.1 ॥
अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः।
ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥ 1.63.2 ॥
तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् ॥ 1.63.3 ॥
विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ॥ 1.63.4 ॥
ततः कालेन महता मेनका परमाप्सराः।
पुष्करेषु नरश्रेष्ठस्नातुं समुपचक्रमे ॥ 1.63.5 ॥
तां ददर्श महातेजा मेनकां कुशिकात्मजः।
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥ 1.63.6 ॥
दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् ॥ 1.63.7 ॥
अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे।
अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् ॥ 1.63.8 ॥
इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ॥ 1.63.9 ॥
तस्यां वसन्त्यां वर्षाणि पञ्चपञ्च च राघव।
विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमुः ॥ 1.63.10 ॥
अथ काले गते तस्मिन् विश्वामित्रो महामुनिः।
सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः ॥ 1.63.11 ॥
बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन।
सर्वं सुराणां कर्मैतत्तपोपहरणं महत् ॥ 1.63.12 ॥
अहोरात्रापदेशेन गताः संवत्सरा दश।
काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः ॥ 1.63.13 ॥
विनिश्वसन् मुनिवरः पश्चात्तापेन दुःखितः।
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ॥ 1.63.14 ॥
मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः।
उत्तरं पर्वतं राम विश्वामित्रो जगाम ह ॥ 1.63.15 ॥
स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः।
कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ॥ 1.63.16 ॥
तस्य वर्षसहस्रं तु घोरं तप उपासतः।
उत्तरे पर्वते राम देवतानामभूद्भयम् ॥ 1.63.17 ॥
आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः।
महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ॥ 1.63.18 ॥
देवतानां वचः श्रुत्वा सर्वलोकपितामहः।
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ 1.63.19 ॥
महर्षे स्वागतं वत्स तपसोग्रेण तोषितः।
महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ॥ 1.63.20 ॥
ब्रह्मणस्स वचः श्रुत्वा सर्वलोकेश्वरस्य ह।
न विषण्णो न सन्तुष्टो विश्वामित्रस्तपोधनः ॥ 1.63.21 ॥
प्राञ्जलिः प्रणतो भूत्वा सर्वलोकपितामहम्।
प्रत्युवाच ततो वाचं विश्वामित्रो महामुनिः ॥ 1.63.22 ॥
महर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः।
यदि मे भगवानाह ततोऽहं विजितेन्द्रियः ॥ 1.63.23 ॥
तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः।
यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ॥ 1.63.24 ॥
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः।
ऊर्द्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् ॥ 1.63.25 ॥
घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः।
शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः ॥ 1.63.26 ॥
एवं वर्षसहस्रं हि तपो घोरमुपागमत् ॥ 1.63.27 ॥
तस्मिन् सन्तप्यमाने तु विश्वामित्रे महामुनौ।
सम्भ्रमः सुमहानासीत् सुराणां वासवस्य च ॥ 1.63.28 ॥
रम्भामप्सरसं शक्रस्सह सर्वैर्मरुद्गणैः।
उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥ 1.63.29 ॥