शुनःशेपं नरश्रेष्ठगृहीत्वा तु महायशाः।
व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ॥ 1.62.1 ॥
पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह।
तप्यन्तमृषिभिः सार्द्धं मातुलं परमातुरः ॥ 1.62.2 ॥
विवर्णवदनो दीनस्तृष्णया च श्रमेण च।
पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह ॥ 1.62.3 ॥
न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः।
त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव ॥ 1.62.4 ॥
त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ॥ 1.62.5 ॥
राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः।
स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ॥ 1.62.6 ॥
त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा।
पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् ॥ 1.62.7 ॥
तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः।
सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह ॥ 1.62.8 ॥
यत्कृते पितरः पुत्रान् जनयन्ति शुभार्थिनः।
परलोकहितार्थाय तस्य कालोऽयमागतः ॥ 1.62.9 ॥
अयं मुनिसुतो बालो मत्तश्शरणमिच्छति।
अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ॥ 1.62.10 ॥
सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः।
पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत ॥ 1.62.11 ॥
नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नितो भवेत्।
देवतास्तर्पिताश्च स्युर्ममचापि कृतं वचः ॥ 1.62.12 ॥
मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः।
साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन् ॥ 1.62.13 ॥
कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो।
अकार्यमिव पश्यामः श्वमांसमिव भोजने ॥ 1.62.14 ॥
तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुङ्गवः।
क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥ 1.62.15 ॥
निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्।
अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ॥ 1.62.16 ॥
श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु।
पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ॥ 1.62.17 ॥
कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तथा।
शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयम् ॥ 1.62.18 ॥
पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः।
वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर ॥ 1.62.19 ॥
इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक।
अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि ॥ 1.62.20 ॥
शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः।
त्वरया राजसिंहं तमम्बरीषमुवाच ह ॥ 1.62.21 ॥
राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः।
निर्वर्तयस्व राजेन्द्र दीक्षां च समुपाविश ॥ 1.62.22 ॥
तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः।
जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः ॥ 1.62.23 ॥
सदस्यानुमते राजा पवित्रकृतलक्षणम्।
पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् ॥ 1.62.24 ॥
स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ।
इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥ 1.62.25 ॥
ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः।
दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव ॥ 1.62.26 ॥
स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्।
फलं बहुगुणं राम सहस्राक्षप्रसादजम् ॥ 1.62.27 ॥
विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः।
पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥ 1.62.28 ॥