०६१ शुनःशेफकथा

विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन्।
अब्रवीन्नरशार्दूलस्सर्वांस्तान् वनवासिनः ॥ 1.61.1 ॥
महान् विघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्।
दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥ 1.61.2 ॥
पश्चिमायां विशालायां पुष्करेषु महात्मनः सुखं तपश्चरिष्यामो वरं तद्धि तपोवनम् ॥ 1.61.3 ॥
एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः।
तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥ 1.61.4 ॥
एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः।
अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ 1.61.5 ॥
तस्य वै यजमानस्य पशुमिन्द्रो जहार ह।
प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥ 1.61.6 ॥
पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात्।
अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥ 1.61.7 ॥
प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ।
आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ॥ 1.61.8 ॥
उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभ(भः)।
अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥ 1.61.9 ॥
देशान् जनपदांस्तांस्तान् नगराणि वनानि च।
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥ 1.61.10 ॥
स पुत्रसहितं तात सभार्यं रघुनन्दन।
भृगुतुन्दे समासीनमृचीकं सन्ददर्श ह ॥ 1.61.11 ॥
ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः।
पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः ॥ 1.61.12 ॥
गवां शतसहस्रेण विक्रीणीषे सुतं यदि।
पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव ॥ 1.61.13 ॥
सर्वे परिसृता देशा याज्ञीयं न लभे पशुम्।
दातुमर्हसि मूल्येन सुतमेकमितो मम ॥ 1.61.14 ॥
एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः।
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथञ्चन ॥ 1.61.15 ॥
ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्।
उवाच नरशार्दूलमम्बरीषं तपस्विनी ॥ 1.61.16 ॥
ममापि दयितं विद्धि कनिष्ठं शुनकं नृप।
तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव ॥ 1.61.17 ॥
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः।
मातॄणां च कनीयांसस्तस्माद्रक्षे कनीयसम् ॥ 1.61.18 ॥
उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च।
शुनःशेषः स्वयं राम मध्यमो वाक्यमब्रवीत् ॥ 1.61.19 ॥
पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्।
विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम् ॥ 1.61.20 ॥
गवां शतसहस्रेण शुनःशेपं नरेश्वरः।
गृहीत्वा परमप्रीतो जगाम रघुनन्दन ॥ 1.61.21 ॥
अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः।
शुनःशेपं महातेजा जगामाशुमहायशाः ॥ 1.61.22 ॥