तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान्।
ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥ 1.60.1 ॥
धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः।
तेनानेन शरीरेण देवलोकजिगीषया ॥ 1.60.2 ॥
यथाऽयं स्वशरीरेण स्वर्गलोकं गमिष्यति।
तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह ॥ 1.60.3 ॥
विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः।
ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् ॥ 1.60.4 ॥
अयं कुशिकदायादो मुनिः परमकोपनः।
यदाह वचनं सम्यगेतत्कार्यं न संशयः ॥ 1.60.5 ॥
अग्निकल्पो हि भगवान् शापं दास्यति रोषितः।
तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् ॥ 1.60.6 ॥
गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा।
तथा प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत ॥ 1.60.7 ॥
एवमुक्त्वा महर्षयः चक्रुस्तास्ताः क्रियास्तदा।
याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ ॥ 1.60.8 ॥
ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः।
चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि ॥ 1.60.9 ॥
ततः कालेन महता विश्वामित्रो महातपाः।
चकारावाहनं तत्र भागार्थं सर्वदेवताः ॥ 1.60.10 ॥
नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवताः ॥ 1.60.11 ॥
तत्र क्रोधसमाविष्टो विश्वामित्रो महामुनिः।
स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् ॥ 1.60.12 ॥
एष त्वां सशरीरेण नयामि स्वर्गमोजसा।
दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप ॥ 1.60.13 ॥
स्वार्जितं किञ्चिदप्यस्ति मया हि तपसः फलम्।
राजन् स्वतेजसा तस्य सशरीरो दिवं व्रज ॥ 1.60.14 ॥
उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः।
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा ॥ 1.60.15 ॥
देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः।
सह सर्वैः सुरगणैरिदं वचनमब्रवीत् ॥ 1.60.16 ॥
त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः।
गुरुशापहतो मूढ पत भूमिमवाक्छिराः ॥ 1.60.17 ॥
एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः।
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् ॥ 1.60.18 ॥
तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः।
क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 1.60.19 ॥
ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः।
सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः ॥ 1.60.20 ॥
नक्षत्रमालामपरामसृजत् क्रोधमूर्च्छितः।
दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः ॥ 1.60.21 ॥
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः।
दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ॥ 1.60.22 ॥
ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः।
विश्वामित्रं महात्मानमूचुः सानुनयं वचः ॥ 1.60.23 ॥
अयं राजा महाभाग गुरुशापपरिक्षतः।
सशरीरो दिवं यातु नार्हत्येह तपोधन ॥ 1.60.24 ॥
तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गवः।
अब्रवीत् सुमहद्वाक्यं कौशिकः सर्वदेवताः ॥ 1.60.25 ॥
सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः।
आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे ॥ 1.60.26 ॥
स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः।
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ॥ 1.60.27 ॥
यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः।
मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ॥ 1.60.28 ॥
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुङ्गवम् ॥ 1.60.29 ॥
एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः।
गगने तान्यनेकानि वैश्वानरपथाद्बहिः ॥ 1.60.30 ॥
नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिष्षु जाज्वलन्।
अवाक्छिरास्त्रिशङ्कुश्च तिष्ठत्वमरसन्निभः ॥ 1.60.31 ॥
अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम्।
कृतार्थं कीर्तिमन्तञ्च स्वर्गलोकगतं तथा ॥ 1.60.32 ॥
विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः।
ऋषिभिश्च महातेजा बाढमित्याह देवताः ॥ 1.60.33 ॥
ततो देवा महात्मानो मुनयश्च तपोधनाः।
जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ॥ 1.60.34 ॥