उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः।
अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम् ॥ 1.59.1 ॥
ऐष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम्।
शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव ॥ 1.59.2 ॥
अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः।
यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः ॥ 1.59.3 ॥
गुरुशापकृतं रूपं यदिदं त्वयि वर्तते।
अनेन सह रूपेण सशरीरो गमिष्यसि ॥ 1.59.4 ॥
हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप।
यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ॥ 1.59.5 ॥
व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात्।
सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह ॥ 1.59.6 ॥
सर्वानृषिगणान् वत्सा आनयध्वं ममाज्ञया।
सशिष्यसुहृदश्चैव सर्त्विजः सबहुश्रुतान् ॥ 1.59.7 ॥
यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः।
तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम् ॥ 1.59.8 ॥
तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया।
आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः ॥ 1.59.9 ॥
ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम्।
ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् ॥ 1.59.10 ॥
श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः।
सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् ॥ 1.59.11 ॥
वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम्।
यदाह वचनं सर्वं शृणु त्वं मुनिपुङ्गव ॥ 1.59.12 ॥
क्षत्रियो याजको यस्य चण्डालस्य विशेषतः।
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥ 1.59.13 ॥
ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम्।
कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः ॥ 1.59.14 ॥
एतद्वचननैष्ठुर्यमूचुः संरक्तलोचनाः।
वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः ॥ 1.59.15 ॥
तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुङ्गवः।
क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् ॥ 1.59.16 ॥
ये दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम्।
भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः ॥ 1.59.17 ॥
अद्य ते कालपाशेन नीता वैवस्वतक्षयम्।
सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः ॥ 1.59.18 ॥
श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः।
विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् ॥ 1.59.19 ॥
महोदयश्चदुर्बुद्धिर्मामदूष्यं ह्यदूषयत्।
दूषितः सर्वलोकेषु निषादत्वं गमिष्यति ॥ 1.59.20 ॥
प्राणातिपातनिरतो निरनुक्रोशतां गतः।
दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति ॥ 1.59.21 ॥
एतावदुक्त्वा वचनं विश्वामित्रो महातपाः।
विरराम महातेजा ऋषिमध्ये महामुनिः ॥ 1.59.22 ॥