ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम्।
ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ॥ 1.58.1 ॥
प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना।
तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ॥ 1.58.2 ॥
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः।
न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥ 1.58.3 ॥
अशक्यमिति चोवाच वसिष्ठो भगवानृषिः।
तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव ॥ 1.58.4 ॥
बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः।
याजने भगवान् शक्तस्त्रैलोक्यस्यापि पार्थिव ॥ 1.58.5 ॥
अवमानं च तत्कर्तुं तस्य शक्ष्यामहे कथम् ॥ 1.58.6 ॥
तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम्।
स राजा पुनरेवैतानिदं वचनमब्रवीत् ॥ 1.58.7 ॥
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च।
अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः ॥ 1.58.8 ॥
ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम्।
शेपुः परमसङ्क्रुद्धाश्चण्डालत्वं गमिष्यसि ॥ 1.58.9 ॥
एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम् ॥ 1.58.10 ॥
नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्द्धजः।
चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् ॥ 1.58.11 ॥
तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम्।
प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः ॥ 1.58.12 ॥
एको हि राजा काकुत्स्थ जगाम परमात्मवान्।
दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् ॥ 1.58.13 ॥
विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम्।
चण्डालरूपिणं राम मुनिः कारुण्यमागतः ॥ 1.58.14 ॥
कारुण्यात् स महातेजा वाक्यं परमधार्मिकः।
इदं जगाद भद्रं ते राजानं घोररूपिणम् ॥ 1.58.15 ॥
किमागमनकार्यं ते राजपुत्र महाबल।
अयोध्याधिपते वीर शापाच्चण्डालतां गतः ॥ 1.58.16 ॥
अथ तद्वाक्यमाज्ञाय राजा चण्डालतां गतः।
अब्रवीत्प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ 1.58.17 ॥
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च।
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः ॥ 1.58.18 ॥
सशरीरो दिवं यायामिति मे सौम्य दर्शनम्।
मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम् ॥ 1.58.19 ॥
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन।
कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे ॥ 1.58.20 ॥
यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः।
गुरवश्च महात्मानः शीलवृत्तेन तोषिताः ॥ 1.58.21 ॥
धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः।
परितोषं न गच्छन्ति गुरवो मुनिपुङ्गव ॥ 1.58.22 ॥
दैवमेव परं मन्ये पौरुषं तु निरर्थकम्।
दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः ॥ 1.58.23 ॥
तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतः।
कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः ॥ 1.58.24 ॥
नान्यां गतिं गमिष्यामि नान्यः शरणमस्ति मे।
दैवं पुरुषकारेण निवर्तयितुमर्हसि ॥ 1.58.25 ॥