०५७ त्रिशङ्कोर् यजनप्रार्थना

ततः सन्तप्तहृदयः स्मरन् निग्रहमात्मनः।
विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ॥ 1.57.1 ॥
स दक्षिणां दिशं गत्वा महिष्या सह राघव।
तताप परमं घोरं विश्वामित्रो महत्तपः ॥ 1.57.2 ॥
अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः।
हविष्यन्दो मधुष्यन्दो दृढनेत्रो महारथः ॥ 1.57.3 ॥
पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः।
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ 1.57.4 ॥
जिता राजर्षिलोकास्ते तपसा कुशिकात्मज।
अनेन तपसा त्वां तु राजर्षिरिति विद्महे ॥ 1.57.5 ॥
एवमुक्त्वा महातेजा जगाम सह दैवतैः।
त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः ॥ 1.57.6 ॥
विश्वामित्रोपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुखः।
दुःखेन महताविष्टः समन्युरिदमब्रवीत् ॥ 1.57.7 ॥
तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः।
देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम् ॥ 1.57.8 ॥
एवं निश्चित्य मनसा भूय एव महातपाः।
तपश्चकार काकुत्स्थ परमं परमात्मवान् ॥ 1.57.9 ॥
एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः।
त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्द्धनः ॥ 1.57.10 ॥
तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव।
गच्छेयं सशरीरेण देवानां परमां गतिम् ॥ 1.57.11 ॥
स वसिष्ठं समाहूय कथयामास चिन्तितम्।
अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना ॥ 1.57.12 ॥
प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम्।
ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः ॥ 1.57.13 ॥
त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम्।
वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः ॥ 1.57.14 ॥
अभिवाद्यानुपूर्व्येण ह्रिया किञ्चिदवाङ्मुखः।
अब्रवीत्सुमहात्मानः सर्वानेव कृताञ्जलिः ॥ 1.57.15 ॥
शरणं वः प्रपद्येऽहं शरण्यान् शरणागतः।
प्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना ॥ 1.57.16 ॥
यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ।
गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये ॥ 1.57.17 ॥
ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः।
सशरीरो यथाहं हि देवलोकमवाप्नुयाम् ॥ 1.57.18 ॥
प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः।
गुरुपुत्रानृते सर्वान्नाहं पश्यामि काञ्चन ॥ 1.57.19 ॥
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः।
पुरोधसस्तु विद्वांसस्तारयन्ति सदा नृपान् ॥ 1.57.20 ॥
तस्मादनन्तरं सर्वे भवन्तो दैवतं मम ॥ 1.57.21 ॥