०५६ वसिष्ठ-विश्वामित्र-सङ्घर्षः

एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः।
आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ 1.56.1 ॥
ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम्।
वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥ 1.56.2 ॥
क्षत्रबन्धो स्थितोऽस्म्येष यद्वलं तद्विदर्शय।
नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज ॥ 1.56.3 ॥
क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत्।
पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥ 1.56.4 ॥
तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुद्यतम्।
ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा ॥ 1.56.5 ॥
वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा।
ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ॥ 1.56.6 ॥
मानवं मोहनं चैव गान्धर्वं स्वापनं तथा।
जृम्भणं मादनं चैव सन्तापनविलापने ॥ 1.56.7 ॥
शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्।
ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ 1.56.8 ॥
पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी उभे।
दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥ 1.56.9 ॥
धर्मचक्रं कालचक्रं विष्णुचक्रं तथैवव च।
वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥ 1.56.10 ॥
शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा।
वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥ 1.56.11 ॥
त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम्।
एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥ 1.56.12 ॥
वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् ॥ 1.56.13 ॥
तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥ 1.56.14 ॥
तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः ॥ 1.56.15 ॥
तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः।
देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः ॥ 1.56.16 ॥
त्रैलोक्यमासीत् सन्त्रस्तं ब्रह्मास्त्रे समुदीरिते ॥ 1.56.17 ॥
तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा।
वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव ॥ 1.56.18 ॥
ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः।
त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् ॥ 1.56.19 ॥
रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः।
मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः ॥ 1.56.20 ॥
प्राज्वलद् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः।
विधूम इव कालाग्निर्यमदण्ड इवापरः ॥ 1.56.21 ॥
ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम्।
अमोघं ते बलं ब्रह्मन् तेजो धारय तेजसा ॥ 1.56.22 ॥
निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः।
प्रसीद जपातां श्रेष्ठ लोकाः सन्तु गतव्यथाः ॥ 1.56.23 ॥
एवमुक्तो महातेजाः शमं चक्रे महातपाः ॥ 1.56.24 ॥
विश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत् ॥ 1.56.25 ॥
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्।
एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥ 1.56.26 ॥
तदेतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः।
तपो महत् समास्थास्ये यद्वै ब्रह्मत्वकारणम् ॥ 1.56.27 ॥