०५५ विश्वामित्रास्त्रमोक्षणम्

ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान्।
वसिष्ठश्चोदयामास कामधुक्सृज योगतः ॥ 1.55.1 ॥
तस्या हुम्भारवाज्जाताः काम्भोजा रविसन्निभाः।
ऊधसस्त्वथ सञ्जाताः पप्लवाः शस्त्रपाणयः ॥ 1.55.2 ॥
योनिदेशाच्च यवनाःशकृद्देशाच्छकास्तथा।
रोमकूपेषु च म्लेच्छा हारीतास्सकिरातकाः ॥ 1.55.3 ॥
तैस्तैर्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात्।
सपदातिगजं साश्वं सरथं रघुनन्दन ॥ 1.55.4 ॥
विश्वामित्रसुतानां तु शतं नानाविधायुधम्।
अभ्यधावत्सुसङ्क्रुद्धं वसिष्ठं जपतां वरम् ॥ 1.55.5 ॥
हुङ्कारेणैव तान् सर्वान् ददाह भगवानृषिः ॥ 1.55.6 ॥
ते साश्वरथपादाता वसिष्ठेन महात्मना।
भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा ॥ 1.55.7 ॥
दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः।
सव्रीडश्चिन्तयाविष्टो विश्वामित्रोऽभवत्तदा ॥ 1.55.8 ॥
समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरगः।
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ 1.55.9 ॥
हतपुत्रबलो दीनो लूनपक्ष इव द्विजः।
हतदर्प्पो हतोत्साहो निर्वेदं समपद्यत ॥ 1.55.10 ॥
स पुत्रमेकं राज्याय पालयेति नियुज्य च।
पृथिवीं क्षत्रधर्म्मेण वनमेवान्वपद्यत ॥ 1.55.11 ॥
स गत्वा हिमवत्पार्श्वं किन्नरोरगसेवितम्।
महादेवप्रसादार्थं तपस्तेपे महातपाः ॥ 1.55.12 ॥
केनचित्त्वथ कालेन देवेशो वृषभध्वजः।
दर्शयामास वरदो विश्वामित्रं महाबलम् ॥ 1.55.13 ॥
किमर्थं तप्यसे राजन् ब्रूहि यत्ते विवक्षितम्।
वरदोऽस्मि वरो यस्ते काङ्क्षितः सोऽभिधीयताम् ॥ 1.55.14 ॥
एवमुक्तस्तु देवेन विश्वामित्रो महातपाः।
प्रणिपत्य महादेवमिदं वचनमब्रवीत् ॥ 1.55.15 ॥
यदि तुष्टो महादेव धनुर्वेदो ममानघ।
साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् ॥ 1.55.16 ॥
गन्धर्वयक्षरक्षस्सु प्रतिभान्तु ममानघ।
तव प्रसादाद्भवतु देवदेव ममेप्सितम् ॥ 1.55.17 ॥
एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥ 1.55.18 ॥
प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः।
दर्पेण महतायुक्तो दर्पपूर्णोऽभवत्तदा ॥ 1.55.19 ॥
विवर्द्धमानो वीर्येण समुद्र इव पर्वणि।
हतमेव तदा मेने वसिष्ठमृषिसत्तमम् ॥ 1.55.20 ॥
ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः।
यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा ॥ 1.55.21 ॥
उदीर्यमाणमस्त्रं तद्विश्वामित्रस्यधीमतः।
दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥ 1.55.22 ॥
वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः।
विद्रवन्ति भयाद्भीता नानादिग्भ्यः सहस्रशः ॥ 1.55.23 ॥
वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः।
मुहूर्तमिव निःशब्दमासीदिरिणसन्निभम् ॥ 1.55.24 ॥
वदतो वै वसिष्ठस्य माभैरिति मुहुर्मुहुः।
नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥ 1.55.25 ॥
एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः।
विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ 1.55.26 ॥
आश्रमं चिरसंवृद्धं यद्विनाशितवानसि।
दुराचारोऽसि तन्मूढ तस्मात्त्वं न भविष्यसि ॥ 1.55.27 ॥
इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्यसत्वरः।
विधूममिव कालाग्निं यमदण्डमिवापरम् ॥ 1.55.28 ॥