०५४ शबलापहरणम्

कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः।
तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ॥ 1.54.1 ॥
नीयमाना तु शबला राम राज्ञा महात्मना।
दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ॥ 1.54.2 ॥
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना।
याऽहं राजभटैर्दीना ह्रियेयं भृशदुःखिता ॥ 1.54.3 ॥
किं मयाऽपकृतं तस्य महर्षेर्भावितात्मनः।
यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः ॥ 1.54.4 ॥
निर्द्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन।
जगामानिलवेगेन पादमूलं महात्मनः ॥ 1.54.5 ॥
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत्।
वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी ॥ 1.54.6 ॥
भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत।
यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः ॥ 1.54.7 ॥
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्।
शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ॥ 1.54.8 ॥
न त्वां त्यजामि शबले नापिमेऽपकृतं त्वया।
एष त्वां नयते राजा बलान्मत्तो महाबलः ॥ 1.54.9 ॥
न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः।
बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥ 1.54.10 ॥
इयमक्षौहिणी पूर्णा सवाजिरथसङ्कुला।
हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥ 1.54.11 ॥
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्।
वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ॥ 1.54.12 ॥
न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरः।
ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ॥ 1.54.13 ॥
अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः।
विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् ॥ 1.54.14 ॥
नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसम्भृताम्।
तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ॥ 1.54.15 ॥
इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः।
सृजस्वेति तदोवाच बलं परबलारुजम् ॥ 1.54.16 ॥
तस्य तद्वचनं श्रुत्वा सुरभिः सासृजत्तदा ॥ 1.54.17 ॥
तस्या हुम्भारवोत्सृष्टाः पप्लवाः शतशो नृप।
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः ॥ 1.54.18 ॥
स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः।
पप्लवान् नाशयामास शस्त्रैरुच्चावचैरपि ॥ 1.54.19 ॥
विश्वामित्रार्दितान् दृष्ट्वा पप्लवान् शतशस्तदा।
भूय एवासृजत्कोपाच्छकान् यवनमिश्रितान् ॥ 1.54.20 ॥
तैरासीत्संवृता भूमिः शकैर्यवनमिश्रितैः।
प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसन्निभैः ॥ 1.54.21 ॥
दीर्घासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः।
निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः ॥ 1.54.22 ॥
ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह।
तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः ॥ 1.54.23 ॥