एवमुक्ता वसिष्ठेन शबला शत्रुसूदन।
विदधे कामधुक्कामान् यस्य यस्य यथेप्सितम् ॥ 1.53.1 ॥
इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान्।
पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा ॥ 1.53.2 ॥
उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः।
मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च ॥ 1.53.3 ॥
नानास्वादुरसानां च षाडवानां तथैव च।
भाजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ 1.53.4 ॥
सर्वमासीत्सुसन्तुष्टं हृष्टपुष्टजनायुतम्।
विश्वामित्रबलं राम वसिष्ठेनातितर्पितम् ॥ 1.53.5 ॥
विश्वामित्रोऽपि राजर्षिर्हृष्टः पुष्टस्तदाभवत्।
सान्तःपुरवरो राजा सब्राह्मणपुरोहितः ॥ 1.53.6 ॥
सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा।
युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ॥ 1.53.7 ॥
पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः।
श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ॥ 1.53.8 ॥
गवां शतसहस्रेण दीयतां शबला मम ॥ 1.53.9 ॥
रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः।
तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज ॥ 1.53.10 ॥
एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः।
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ॥ 1.53.11 ॥
नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्।
राजन् दास्यामि शबलां राशिभी रजतस्य वा ॥ 1.53.12 ॥
न परित्यागमर्हेयं मत्सकाशादरिन्दम।
शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ॥ 1.53.13 ॥
अस्यां हव्यं च कव्यं प्राणयात्रा तथैव च।
आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ॥ 1.53.14 ॥
स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा।
आयत्तमत्र राजर्षे सर्वमेतन्न संशयः ॥ 1.53.15 ॥
सर्वस्वमेतत्सत्येन मम तुष्टिकरी सदा।
कारणैर्बहुभी राजन्न दास्ये शबलां तव ॥ 1.53.16 ॥
वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः।
संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ॥ 1.53.17 ॥
हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान्।
ददामि कुञ्जराणां ते सहस्राणि चतुर्दश ॥ 1.53.18 ॥
हैरण्यानां रथानां ते श्वेताश्वानां चतुर्युजाम्।
ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् ॥ 1.53.19 ॥
हयानां देशजातानां कुलजानां महौजसाम्।
सहस्रमेकं दश च ददामि तव सुव्रत ॥ 1.53.20 ॥
नानावर्णविभक्तानां वयःस्थानां तथैव च।
ददाम्येकां गवां कोटिं शबला दीयतां मम ॥ 1.53.21 ॥
यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम।
तावद्ददामि तत्सर्वं शबला दीयतां मम ॥ 1.53.22 ॥
एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता।
न दास्यामीति शबलां प्राह राजन् कथञ्चन ॥ 1.53.23 ॥
एतदेव हि मे रत्नमेतदेव हि मे धनम्।
एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥ 1.53.24 ॥
दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः।
एतदेव हि मे राजन् विविधाश्च क्रियास्तथा ॥ 1.53.25 ॥
अदोमूलाः क्रियाः सर्वा मम राजन्न संशयः।
बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥ 1.53.26 ॥