स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः।
प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् ॥ 1.52.1 ॥
स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना।
आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ॥ 1.52.2 ॥
उपविष्टाय च तदा विश्वामित्राय धीमते।
यथान्यायं मुनिवरः फलमूलमुपाहरत् ॥ 1.52.3 ॥
प्रतिगृह्य च तां पूजां वसिष्ठाद्राजसत्तमः।
तपोग्निहोत्रशिष्येषु कुशलं पर्य्यपृच्छत ॥ 1.52.4 ॥
विश्वामित्रो महातेजा वनस्पतिगणे तथा।
सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम् ॥ 1.52.5 ॥
सुखोपविष्टं राजानं विश्वामित्रं महातपाः।
पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥ 1.52.6 ॥
कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रञ्जयन्।
प्रजाः पालयसे वीर राजवृत्तेन धार्मिक ॥ 1.52.7 ॥
कच्चित्ते सम्भृता भृत्याः कच्चित्तिष्ठन्ति शासने।
कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन ॥ 1.52.8 ॥
कच्चिद्बलेषु कोशेषु मित्रेषु च परन्तप।
कुशलं ते नरव्याघ्र पुत्रपौत्रे तवानघ ॥ 1.52.9 ॥
सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत्।
विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः ॥ 1.52.10 ॥
कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाश्शुभाः।
मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥ 1.52.11 ॥
ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन।
विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥ 1.52.12 ॥
आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल।
तव चैवाप्रमेयस्य यथार्हं सम्प्रतीच्छ मे ॥ 1.52.13 ॥
सत्क्रियां हि भवानेतां प्रतीच्छतु मयोद्यताम्।
राजा त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ॥ 1.52.14 ॥
एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः।
कृतमित्यब्रवीद्राजा प्रियवाक्येन मे त्वया ॥ 1.52.15 ॥
फलमूलेन भगवन् विद्यते यत्तवाश्रमे।
पाद्येनाचमनीयेन भगवद्दर्शनेन च ॥ 1.52.16 ॥
सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः।
गमिष्यामि नमस्तेऽस्तु मैत्रेणेक्षस्व चक्षुषा ॥ 1.52.17 ॥
एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि।
न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः ॥ 1.52.18 ॥
बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह।
यथाप्रियं भगवतस्तथास्तु मुनिसत्तम ॥ 1.52.19 ॥
एवमुक्तो महातेजा वसिष्ठो जपतां वरः।
आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः ॥ 1.52.20 ॥
सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम्।
भोजनेन महार्हेण सत्कारं संविधत्स्व मे ॥ 1.52.21 ॥
यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम्।
तत्सर्वं कामधुक् क्षिप्रमभिवर्ष कृते मम ॥ 1.52.22 ॥
रसेनान्नेन पानेन लेह्यचोष्येण संयुतम्।
अन्नानां निचयं सर्वं सृजस्व शबले त्वर ॥ 1.52.23 ॥