तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः।
हृष्टरोमा महातेजाः शतानन्दो महातपाः ॥ 1.51.1 ॥
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः।
रामसन्दर्शनादेव परं विस्मयमागतः ॥ 1.51.2 ॥
स तौ निषण्णौ सम्प्रेक्ष्य सुखासीनौ नृपात्मजौ।
शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ॥ 1.51.3 ॥
अपि ते मुनिशार्दूल मम माता यशस्विनी।
दर्शिता राजपुत्राय तपोदीर्घमुपागता ॥ 1.51.4 ॥
अपि रामे महातेजा मम माता यशस्विनी।
वन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम् ॥ 1.51.5 ॥
अपि रामाय कथितं यथावृत्तं पुरातनम्।
मम मातुर्महातेजो दैवेन दुरनुष्ठितम् ॥ 1.51.6 ॥
अपि कौशिक भद्रं ते गुरुणा मम सङ्गता।
माता मम मुनिश्रेष्ठ रामसन्दर्शनादितः ॥ 1.51.7 ॥
अपि मे गुरुणा रामः पूजितः कुशिकात्मज।
इहागतो महातेजाः पूजां प्राप्तो महात्मनः ॥ 1.51.8 ॥
अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज।
इहागतेन रामेण प्रयतेनाभिवादितः ॥ 1.51.9 ॥
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः।
प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ 1.51.10 ॥
नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया।
सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका ॥ 1.51.11 ॥
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः।
शतानन्दो महातेजा रामं वचनमब्रवीत् ॥ 1.51.12 ॥
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव।
विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ॥ 1.51.13 ॥
अचिन्त्यकर्मा तपसा ब्रह्मर्षिरतुलप्रभः।
विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् ॥ 1.51.14 ॥
नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन।
गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥ 1.51.15 ॥
श्रूयतामभिधास्यामि कौशिकस्य महात्मनः।
यथा बलं यथा वृत्तं तन्मे निगदतः शृणु ॥ 1.51.16 ॥
राजाभूदेष धर्मात्मा दीर्घकालमरिन्दमः।
धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥ 1.51.17 ॥
प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः।
कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥ 1.51.18 ॥
कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः।
गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥ 1.51.19 ॥
विश्वामित्रो महातेजाः पालयामास मेदिनीम्।
बहुवर्षसहस्राणि राजा राज्यमकारयत् ॥ 1.51.20 ॥
कदाचित्तु महातेजा योजयित्वा वरूथिनीम्।
अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ॥ 1.51.21 ॥
नगराणि च राष्ट्राणि सरितश्च तथा गिरीन्।
आश्रमान् क्रमशो राम विचरन्नाजगाम ह ॥ 1.51.22 ॥
वसिष्ठस्याश्रमपदं नानावृक्षसुमाकुलम्।
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥ 1.51.23 ॥
देवदानवगन्धर्वैः किन्नरैरुपशोभितम्।
प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम् ॥ 1.51.24 ॥
ब्रह्मर्षिगणसङ्कीर्णं देवर्षिगणसेवितम्।
तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः ॥ 1.51.25 ॥
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा।
फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः ॥ 1.51.26 ॥
ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः।
अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् ॥ 1.51.27 ॥
वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्।
ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः ॥ 1.51.28 ॥