०५० मिथिला-गतिः

ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह।
विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥ 1.50.1 ॥
रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः।
साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥ 1.50.2 ॥
बहूनीह सहस्राणि नानादेशनिवासिनाम्।
ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् ॥ 1.50.3 ॥
ऋषिवाटाश्च दृश्यन्ते शकटीशतसङ्कुलाः।
देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् ॥ 1.50.4 ॥
रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः।
निवेशमकरोद्देशे विविक्ते सलिलायुते ॥ 1.50.5 ॥
शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम्।
प्रयुत्ज्जगाम सहसा विनयेन समन्वितः ॥ 1.50.6 ॥
ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम्।
विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम् ॥ 1.50.7 ॥
प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः।
पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् ॥ 1.50.8 ॥
स तांश्चापि मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः।
यथान्यायं ततः सर्वैः समागच्छत् प्रहृष्टवत् ॥ 1.50.9 ॥
अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत।
आसने भगवन्नास्तां सहैभिर्मुनिसत्तमैः ॥ 1.50.10 ॥
जनकस्य वचः श्रुत्वा निषसाद महामुनिः।
पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः ॥ 1.50.11 ॥
आसनेषु यथान्यायमुपविष्टान् समन्ततः।
दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् ॥ 1.50.12 ॥
अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता।
अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया ॥ 1.50.13 ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव।
यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह ॥ 1.50.14 ॥
द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणः।
ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक ॥ 1.50.15 ॥
इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा।
पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रणतो नृपः ॥ 1.50.16 ॥
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ।
गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥ 1.50.17 ॥
पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्द्धरौ।
अश्विनाविव रूपेण समुपस्थितयौवनौ ॥ 1.50.18 ॥
यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ।
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥ 1.50.19 ॥
वरायुधधरौ वीरौ कस्य पुत्रौ महामुने।
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥ 1.50.20 ॥
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः।
काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ 1.50.21 ॥
तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः।
न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ ॥ 1.50.22 ॥
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा।
तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् ॥ 1.50.23 ॥
अहल्यादर्शनं चैव गौतमेन समागमम्।
महाधनुषि जिज्ञासां कर्तुमागमनं तथा ॥ 1.50.24 ॥
एतत्सर्वं महातेजा जनकाय महात्मने।
निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥ 1.50.25 ॥