अफलस्तु ततः शक्रो देवानग्निपुरोधसः।
अब्रवीत् त्रस्तवदनः सर्षिसङ्घान् सचारणान् ॥ 1.49.1 ॥
कुर्वता तपसो विघ्नं गौतमस्य महात्मनः।
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥ 1.49.2 ॥
अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता।
शापमोक्षेण महता तपोऽस्यापहृतं मया ॥ 1.49.3 ॥
तस्मात्सुरवराः सर्वे सर्षिसङ्घाः सचारणाः।
सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ ॥ 1.49.4 ॥
शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः।
पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः ॥ 1.49.5 ॥
अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः।
मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छथ ॥ 1.49.6 ॥
अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति ॥ 1.49.7 ॥
भवतां हर्षणार्थे च ये च दास्यन्ति मानवाः ॥ 1.49.8 ॥
अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः।
उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ॥ 1.49.9 ॥
तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः।
अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन् ॥ 1.49.10 ॥
इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव।
गौतमस्य प्रभावेन तपसश्च महात्मनः ॥ 1.49.11 ॥
तदागच्छ महातेज आश्रमं पुण्यकर्मणः।
तारयैनां महाभागामहल्यां देवरूपिणीम् ॥ 1.49.12 ॥
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः।
विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत् ॥ 1.49.13 ॥
ददर्श च महाभागां तपसा द्योतितप्रभाम्।
लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ॥ 1.49.14 ॥
सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव।
मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव ॥ 1.49.15 ॥
त्रयाणामपि लोकानां यावद्रामस्य दर्शनम्।
शापस्यान्तमुपागम्य तेषां दर्शनमागता ॥ 1.49.16 ॥
राघवौ त्वतिथी तस्याः पादौ जगृहतुस्तदा।
स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ ॥ 1.49.17 ॥
पाद्यमर्घ्यं तथा ऽऽतिथ्यं चकार सुसमाहिता।
प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा ॥ 1.49.18 ॥
पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिः निःस्वनैः।
गन्धर्वाप्सरसां चापि महानासीत्समागमः ॥ 1.49.19 ॥
साधु साध्विति देवास्तामहल्यां समपूजयन्।
तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् ॥ 1.49.20 ॥
गौतमो हि महातेजा अहल्यासहितः सुखी।
रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः ॥ 1.49.21 ॥
रामोऽपि परमां पूजां गौतमस्य महामुनेः।
सकाशाद्विधिवत् प्राप्य जगाम मिथिलां ततः ॥ 1.49.22 ॥