पृष्ट्वा तु कुशलं तत्र परस्परसमागमे।
कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥ 1.48.1 ॥
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ।
गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥ 1.48.2 ॥
पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्द्धरौ।
अश्विनाविव रूपेण समुपस्थितयौवनौ ॥ 1.48.3 ॥
यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ।
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥ 1.48.4 ॥
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्।
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ॥ 1.48.5 ॥
किमर्थं च नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि।
वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ 1.48.6 ॥
तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत्।
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥ 1.48.7 ॥
अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ।
पूजयामास विधिवत् सत्कारार्हौ महाबलौ ॥ 1.48.8 ॥
ततः परमसत्कारं सुमतेः प्राप्य राघवौ।
उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः ॥ 1.48.9 ॥
तान् दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम्।
साधु साध्विति शंसन्तो मिथिलां समपूजयन् ॥ 1.48.10 ॥
मिथिलोपवने तत्र आश्रमं दृश्य राघवः।
पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम् ॥ 1.48.11 ॥
श्रीमदाश्रमसङ्काशं किं न्विदं मुनिवर्ज्जितम्।
श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः ॥ 1.48.12 ॥
तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः।
प्रत्युवाच महातेजा विश्वामित्रो महामुनिः ॥ 1.48.13 ॥
हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव।
यस्यैतदाश्रमपदं शप्तं कोपान्महात्मना ॥ 1.48.14 ॥
गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः।
आश्रमो दिव्यसङ्काशः सुरैरपि सुपूजितः ॥ 1.48.15 ॥
स चेह तप आतिष्ठदहल्यासहितः पूरा।
वर्षपूगाननेकांश्च राजपुत्र महायशः ॥ 1.48.16 ॥
तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः।
मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत् ॥ 1.48.17 ॥
ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते।
सङ्गमं त्वहमिच्छामि त्वया सह सुमध्यमे ॥ 1.48.18 ॥
मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन।
मतिं चकार दुर्मेधा देवराजकुतूहलात् ॥ 1.48.19 ॥
अथाब्रवीत्सुरश्रेष्ठं कृतार्थेनान्तरात्मना।
कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो ॥ 1.48.20 ॥
आत्मानं मां च देवेश सर्वदा रक्ष मानद।
इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत् ॥ 1.48.21 ॥
सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम् ॥ 1.48.22 ॥
एवं सङ्गम्य तु तया निश्चक्रामोटजात्ततः।
स सम्भ्रमात्त्वरन् राम शङ्कितो गौतमं प्रति ॥ 1.48.23 ॥
गौतमं स ददर्शाथ प्रविशन्तं महामुनिम्।
देवदानवदुर्द्धर्षं तपोबलसमन्वितम् ॥ 1.48.24 ॥
तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम्।
गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम् ॥ 1.48.25 ॥
दृष्ट्वा सुरपतिस्त्रस्तो विवर्णवदनोऽभवत् ॥ 1.48.26 ॥
अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः।
दुर्वृत्तं वृत्तसम्पन्नो रोषाद्वचनमब्रवीत् ॥ 1.48.27 ॥
मम रूपं समास्थाय कृतवानसि दुर्मते।
अकर्तव्यमिदं तस्माद्विफलस्त्वं भविष्यसि ॥ 1.48.28 ॥
गौतमेनैवमुक्तस्य सरोषेण महात्मना।
पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात् ॥ 1.48.29 ॥
तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान्।
इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ॥ 1.48.30 ॥
वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी।
अदृश्या सर्वभूतानामाश्रमेऽस्मिन्निवत्स्यसि ॥ 1.48.31 ॥
यदा चैतद्वनं घोरं रामो दशरथात्मजः।
आगमिष्यति दुर्द्धर्षस्तदा पूता भविष्यसि ॥ 1.48.32 ॥
तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता।
मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥ 1.48.33 ॥
इममाश्रममुत्सृज्य सिद्धचारणसेविते।
हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥ 1.48.34 ॥