०४७ मरुदुत्पत्तिः

सप्तधा तु कृते गर्भे दितिः परमदुःखिता।
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ॥ 1.47.1 ॥
ममापराधाद् गर्भोऽयं सप्तधा विफलीकृतः।
नापराधोऽस्ति देवेश तवात्र बलसूदन ॥ 1.47.2 ॥
प्रियं तु कर्तुमिच्छामि मम गर्भविपर्यये।
मरुतां सप्त सप्तानां स्थानपाला भवन्त्विमे ॥ 1.47.3 ॥
वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक।
मारुता इति विख्याता दिव्यरूपा ममात्मजाः ॥ 1.47.4 ॥
ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः।
दिवि वायुरिति ख्यातस्तृतीयोऽपि महायशाः ॥ 1.47.5 ॥
सञ्चरिष्यन्तु भद्रं ते देवभूता ममात्मजाः।
त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः ॥ 1.47.6 ॥
तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः।
उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः ॥ 1.47.7 ॥
सर्वमेतद्यथोक्तं ते भविष्यति न संशयः।
विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः ॥ 1.47.8 ॥
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने।
जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम् ॥ 1.47.9 ॥
एष देशस्स काकुत्स्थ महेन्द्राध्युषितः पुरा।
दितिं यत्र तपस्सिद्धामेवं परिचचार सः ॥ 1.47.10 ॥
इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः।
अलम्बुसायामुत्पन्नो विशाल इति विश्रुतः ॥ 1.47.11 ॥
तेन चासीदिह स्थाने विशालेति पुरी कृता।
विशालस्य सुतो राम हेमचन्द्रो महाबलः ॥ 1.47.12 ॥
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः।
सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः ॥ 1.47.13 ॥
धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत।
सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ॥ 1.47.14 ॥
कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः।
कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ॥ 1.47.15 ॥
सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ॥ 1.47.16 ॥
तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम्।
आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः ॥ 1.47.17 ॥
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः।
दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥ 1.47.18 ॥
इहाद्य रजनीं राम सुखं वत्स्यामहे वयम्।
श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ॥ 1.47.19 ॥
सुमतिस्तु महातेजा विश्वामित्रमुपागतम्।
श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः ॥ 1.47.20 ॥
पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः।
प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ॥ 1.47.21 ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुनिः।
सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मया ॥ 1.47.22 ॥