०४६ दितिकथा

हतेषु तेषु पुत्रेषु दितिः परमदुःखिता।
मारीचं काश्यपं राम भर्त्तारमिदमब्रवीत् ॥ 1.46.1 ॥
हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः।
शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम् ॥ 1.46.2 ॥
साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि।
ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ॥ 1.46.3 ॥
तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा।
प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ 1.46.4 ॥
एवं भवतु भद्रं ते शुचिर्भव तपोधने।
जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ॥ 1.46.5 ॥
पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि।
पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि ॥ 1.46.6 ॥
एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम्।
समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ ॥ 1.46.7 ॥
गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता।
कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ॥ 1.46.8 ॥
तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार ह।
सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा ॥ 1.46.9 ॥
अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च।
न्यवेदयत् सहस्राक्षो यच्चान्यदपि काङ्क्षितम् ॥ 1.46.10 ॥
गात्रसंवहनैश्चैव श्रमापनयनैस्तथा।
शक्रः सर्वेषु कालेषु दितिं परिचचार ह ॥ 1.46.11 ॥
अथ वर्षसहस्रे तु दशोने रघुनन्दन।
दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ॥ 1.46.12 ॥
याचितेन सुरश्रेष्ठ पित्रा तव महात्मना।
वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ॥ 1.46.13 ॥
तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर।
अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ 1.46.14 ॥
तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम्।
त्रैलोक्यविजयं पुत्रं सह भोक्ष्यसि विज्वरः ॥ 1.46.15 ॥
एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे।
निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः ॥ 1.46.16 ॥
दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्द्धजाम्।
शिरःस्थाने कृतौ पादौ जहास च मुमोद च ॥ 1.46.17 ॥
तस्याः शरीरविवरं विवेश च पुरन्दरः।
गर्भं च सप्तधा राम बिभेद परमात्मवान् ॥ 1.46.18 ॥
भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा।
रुरोद सुस्वरं राम ततो दितिरबुध्यत ॥ 1.46.19 ॥
मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत।
बिभेद च महातेजा रुदन्तमपि वासवः ॥ 1.46.20 ॥
न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत्।
निष्पपात ततः शक्रो मातुर्वचनगौरवात् ॥ 1.46.21 ॥
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत।
अशुचिर्देवि सुप्तासि पादयोः कृतमूर्द्धजा ॥ 1.46.22 ॥
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे।
अभिदं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि ॥ 1.46.23 ॥