०४५ विशाला-गतिः

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः।
विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥ 1.45.1 ॥
अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया।
गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ॥ 1.45.2 ॥
क्षणभूतेव नौ रात्रिः संवृत्तेयं महातपः।
इमां चिन्तयतस्सर्वां निखिलेन कथां तव ॥ 1.45.3 ॥
तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा।
जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् ॥ 1.45.4 ॥
ततः प्रभाते विमले विश्वामित्रं महामुनिम्।
उवाच राघवो वाक्यं कृताह्निकमरिन्दमः ॥ 1.45.5 ॥
गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् ॥ 1.45.6 ॥
नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्।
भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ॥ 1.45.7 ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः।
सन्तारं कारयामास सर्षिसङ्घः सराघवः ॥ 1.45.8 ॥
उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं तदा।
गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ॥ 1.45.9 ॥
ततो मुनिवरस्तूर्णं जगाम सहराघवः।
विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ॥ 1.45.10 ॥
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्।
पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ॥ 1.45.11 ॥
कतरो राजवंशोऽयं विशालायां महामुने।
श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥ 1.45.12 ॥
तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गवः।
आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥ 1.45.13 ॥
श्रूयतां राम शक्रस्य कथां कथयतः शुभाम्।
अस्मिन् देशे तु यद्वृत्तं तदपि शृणु राघव ॥ 1.45.14 ॥
पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः।
अदितेश्च महाभाग वीर्यवन्तः सुधार्मिकाः ॥ 1.45.15 ॥
ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम्।
अमरा अजराश्चैव कथं स्याम निरामयाः ॥ 1.45.16 ॥
तेषां चिन्तयतां राम बुद्धिरासीन्महात्मनाम्।
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥ 1.45.17 ॥
ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्।
मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥ 1.45.18 ॥
अथ वर्षसहस्रेण सदण्डः सकमण्डलुः।
पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः ॥ 1.45.19 ॥
अप्सु निर्मथनादेव रसस्तस्माद्वरस्त्रियः।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् ॥ 1.45.20 ॥
षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्।
असङ्ख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ॥ 1.45.21 ॥
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः।
अप्रतिग्रहणादेव तेन साधारणाः स्मृताः ॥ 1.45.22 ॥
वरुणस्य ततः कन्या वारुणी रघुनन्दन।
उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥ 1.45.23 ॥
दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्।
अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम् ॥ 1.45.24 ॥
असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः।
हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात्सुराः ॥ 1.45.25 ॥
उच्चैश्श्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्।
उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् ॥ 1.45.26 ॥
अथ तस्य कृते राम महानासीत्कुलक्षयः।
अदितेस्तु ततः पुत्रा दितेः पुत्रानसूदयन् ॥ 1.45.27 ॥
एकतोऽभ्यागमन् सर्वे ह्यसुरा राक्षसैस्सह।
युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम् ॥ 1.45.28 ॥
यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः।
अमृतं सोऽहरत्तूर्णं मायामास्थाय मोहिनीम् ॥ 1.45.29 ॥
ये गताभिमुखं विष्णुमक्षयं पुरुषोत्तमम्।
सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥ 1.45.30 ॥
अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे।
तस्मिन् युद्धे महाघोरे दैतेयादित्ययोर्भृशम् ॥ 1.45.31 ॥
निहत्य दितिपुत्रांश्च राज्यं प्राप्य पुरन्दरः।
शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान् ॥ 1.45.32 ॥