स गत्वा सागरं राजा गङ्गयानुगतस्तदा।
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥ 1.44.1 ॥
भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै।
सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥ 1.44.2 ॥
तारिता नरशार्दूल दिवं याताश्च देववत्।
षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥ 1.44.3 ॥
सागरस्य जलं लोके यावत् स्थास्यति पार्थिव।
सगरस्यात्मजा स्तावत् स्वर्गे स्थास्यन्ति देववत् ॥ 1.44.4 ॥
इयं हि दुहिता ज्येष्ठा तव गङ्गा भविष्यति।
त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥ 1.44.5 ॥
गङ्गा त्रिपथगा राजन् दिव्या भागीरथीति च।
त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता ॥ 1.44.6 ॥
पितामहानां सर्वेषां त्वमत्र मनुजाधिप।
कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ॥ 1.44.7 ॥
पूर्वकेण हि ते राजंस्तेनातियशसा तदा।
धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ॥ 1.44.8 ॥
तथैवांशुमता तात लोकेऽप्रतिमतेजसा।
गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥ 1.44.9 ॥
राजर्षिणा गुणवता महर्षिसमतेजसा।
मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥ 1.44.10 ॥
दिलीपेन महाभाग तव पित्रातितेजसा।
पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयतानघ ॥ 1.44.11 ॥
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ।
प्राप्तोऽसि परमं लोके यशः परमसम्मतम् ॥ 1.44.12 ॥
यच्च गङ्गावतरणं त्वया कृतमरिन्दम।
अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥ 1.44.13 ॥
प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते।
सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव ॥ 1.44.14 ॥
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम्।
स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥ 1.44.15 ॥
इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः।
यथागतं तथागच्छद्देवलोकं महायशाः ॥ 1.44.16 ॥
भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम्।
यथाक्रमं यथान्यायं सागराणां महायशाः ॥ 1.44.17 ॥
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह।
समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ॥ 1.44.18 ॥
प्रमुमोद च लोकस्तं नृपमासाद्य राघव।
नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ॥ 1.44.19 ॥
एष ते राम गङ्गाया विस्तरोऽभिहितो मया।
स्वस्ति प्राप्नुहि भद्रं ते सन्ध्याकालोऽतिवर्तते ॥ 1.44.20 ॥
यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च।
प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च ॥ 1.44.21 ॥
यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात्।
सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्द्धते ॥ 1.44.22 ॥