०४३ गङ्गावतारः

देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम्।
कृत्वा वसुमतीं राम संवत्सरमुपासत ॥ 1.43.1 ॥
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः।
उमापतिः पशुपती राजानमिदमब्रवीत् ॥ 1.43.2 ॥
प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम्।
शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ 1.43.3 ॥
तदा साऽतिमहद्रूपं कृत्वा वेगं च दुस्सहम्।
आकाशादपतद्राम शिवे शिवशिरस्युत ॥ 1.43.4 ॥
अचिन्तयच्च सा देवी गङ्गा परमदुर्द्धरा।
विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम् ॥ 1.43.5 ॥
तस्या वलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः।
तिरोभावयितुं बुद्धिं चक्रे त्रिणयनस्तदा ॥ 1.43.6 ॥
सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्द्धनि।
हिमवत्प्रतिमे राम जटामण्डलगह्वरे ॥ 1.43.7 ॥
सा कथञ्चिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता।
नैव निर्गमनं लेभे जटामण्डलमोहिता ॥ 1.43.8 ॥
तत्रैवाबम्भ्रमद्देवी संवत्सरगणान् बहून्।
तामपश्यन् पुनस्तत्र तपः परममास्थितः ॥ 1.43.9 ॥
अनेन तोषितश्चाभूदत्यर्थं रघुनन्दन।
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ॥ 1.43.10 ॥
तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥ 1.43.11 ॥
ह्लादिनी पावनी चैव नलिनी च तथाऽपरा।
तिस्रः प्राचीं दिशं जग्मुर्गङ्गाश्शिवजलाश्शुभाः ॥ 1.43.12 ॥
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी।
तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ॥ 1.43.13 ॥
सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ॥ 1.43.14 ॥
भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः।
प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ॥ 1.43.15 ॥
गगनाच्छङ्करशिरस्ततो धरणिमाश्रिता।
व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ॥ 1.43.16 ॥
मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तदा।
पतद्भिः पतितैश्चान्यैर्व्यरोचत वसुन्धरा ॥ 1.43.17 ॥
ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तदा।
व्यलोकयन्त ते तत्र गगनाद्गां गतां तथा ॥ 1.43.18 ॥
विमानैर्नगराकारैर्हयैर्गजवरैस्तदा।
पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिताः ॥ 1.43.19 ॥
तदद्भुततमं लोके गङ्गापतनमुत्तमम्।
दिदृक्षवो देवगणाः समीयुरमितौजसः ॥ 1.43.20 ॥
सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा।
शतादित्यमिवाभाति गगनं गततोयदम् ॥ 1.43.21 ॥
शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः।
विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा ॥ 1.43.22 ॥
पाण्डरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा।
शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः ॥ 1.43.23 ॥
क्वचिद्द्रुततरं याति कुटिलं क्वचिदायतम्।
विनतं क्वचिदुद्भूतं क्वचिद्याति शनैः शनैः ॥ 1.43.24 ॥
सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः।
मुहुरूर्द्ध्वमुखं गत्वा पपात वसुधातलम् ॥ 1.43.25 ॥
तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः।
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥ 1.43.26 ॥
तत्र देवर्षिगन्धर्वा वसुधातलवासिनः।
भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ॥ 1.43.27 ॥
शापात्प्रपतिता ये च गगनाद्वसुधातलम्।
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ॥ 1.43.28 ॥
धूतपापाः पुनस्तेन तोयेनाथ सुभास्वता।
पुनराकाशमाविश्य स्वान् लोकान् प्रतिपेदिरे ॥ 1.43.29 ॥
मुमुदे मुदितो लोकस्तेन तोयेन भास्वता।
कृताभिषेको गङ्गायां बभूव विगतक्लमः ॥ 1.43.30 ॥
भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः।
प्रायादग्रे महातेजास्तं गङ्गा पृष्टतोऽन्वगात् ॥ 1.43.31 ॥
देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ 1.43.32 ॥
सर्वाश्चाप्सरसो राम भगीरथरथानुगाम्।
गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये ॥ 1.43.33 ॥
यतो भगीरथो राजा ततो गङ्गा यशस्विनी।
जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी ॥ 1.43.34 ॥
ततो हि यजमानस्य जह्नोरद्भुतकर्मणः।
गङ्गा सम्प्लावयामास यज्ञवाटं महात्मनः ॥ 1.43.35 ॥
तस्या वलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव।
अपिबच्च जलं सर्वं गङ्गायाः परमाद्भुतम् ॥ 1.43.36 ॥
पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम्।
गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ॥ 1.43.37 ॥
ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् पुनः।
तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ॥ 1.43.38 ॥
सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा।
रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः ॥ 1.43.39 ॥
भगीरथोऽपि राजर्षिर्गङ्गामादाय यत्नतः।
पितामहान् भस्मकृतानपश्यद्दीनचेतनः ॥ 1.43.40 ॥
अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम्।
प्लावयद्धूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ॥ 1.43.41 ॥