कालधर्मं गते राम सगरे प्रकृतीजनाः।
राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥ 1.42.1 ॥
स राजा सुमहानसीदंशुमान् रघुनन्दन।
तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः ॥ 1.42.2 ॥
तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन।
हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम् ॥ 1.42.3 ॥
द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः।
तपोवनं गतो राम स्वर्गं लेभे तपोधनः ॥ 1.42.4 ॥
दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम्।
दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥ 1.42.5 ॥
कथं गङ्गावतरणं कथं तेषां जलक्रिया।
तारयेयं कथं चैनानिति चिन्तापरोऽभवत् ॥ 1.42.6 ॥
तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः।
पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥ 1.42.7 ॥
दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान्।
त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥ 1.42.8 ॥
अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति।
व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥ 1.42.9 ॥
इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा।
राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥ 1.42.10 ॥
भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन।
अनपत्यो महातेजाः प्रजाकामः स चाप्रजः ॥ 1.42.11 ॥
मन्त्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः ॥ 1.42.12 ॥
स तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दन।
ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः ॥ 1.42.13 ॥
तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः।
अतीतानि महाबाहो तस्य राज्ञो महात्मनः ॥ 1.42.14 ॥
सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वरः ॥ 1.42.15 ॥
ततः सुरगुणैः सार्द्धमुपागम्य पितामहः।
भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥ 1.42.16 ॥
भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर।
तपसा च सुतप्तेन वरं वरय सुव्रत ॥ 1.42.17 ॥
तमुवाच महातेजाः सर्वलोकपितामहम्।
भगीरथो महाभागः कृताञ्जलिरुपस्थितः ॥ 1.42.18 ॥
यदि मे भगवन् प्रीतो यद्यस्ति तपसः फलम्।
सगरस्यात्मजाः सर्वे मत्तस्सलिलमाप्नुयुः ॥ 1.42.19 ॥
गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम्।
स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥ 1.42.20 ॥
देया च सन्ततिर्देव नावसीदेत्कुलं च नः।
इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः ॥ 1.42.21 ॥
उक्तवाक्यं तु राजानं सर्वलोकपितामहः।
प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् ॥ 1.42.22 ॥
मनोरथो महानेष भगीरथ महारथ।
एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्द्धन ॥ 1.42.23 ॥
इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता।
तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ॥ 1.42.24 ॥
गङ्गायाः पतनं राजन् पृथिवी न सहिष्यति।
तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ॥ 1.42.25 ॥
तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत्।
जगाम त्रिदिवं देवस्सह देवैर्मरुद्गणैः ॥ 1.42.26 ॥