०४१ सगर-यज्ञ-समाप्तिः

पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनन्दन।
नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥ 1.41.1 ॥
शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा।
पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥ 1.41.2 ॥
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च।
तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥ 1.41.3 ॥
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि।
सिद्धार्थस्सन्निवर्तस्व मम यज्ञस्य पारगः ॥ 1.41.4 ॥
एवमुक्तोंऽशुमान् सम्यक् सगरेण महात्मना।
धनुरादाय खङ्गं च जगाम लघुविक्रमः ॥ 1.41.5 ॥
स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः।
प्रापद्यत नरश्रेष्ठस्तेन राज्ञाऽभिचोदितः ॥ 1.41.6 ॥
दैत्यदानवरक्षोभिः पिशाचपतगोरगैः।
पूज्यमानं महातेजा दिशागजमपश्यत ॥ 1.41.7 ॥
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम्।
पितॄन् स परिपप्रच्छ वाजिहर्तारमेव च ॥ 1.41.8 ॥
दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वचः।
आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥ 1.41.9 ॥
तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान्।
यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥ 1.41.10 ॥
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः।
पूजितः सहयश्चैव गन्तासीत्यभिचोदितः ॥ 1.41.11 ॥
तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः।
भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥ 1.41.12 ॥
स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा।
चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः ॥ 1.41.13 ॥
यज्ञीयं च हयं तत्र चरन्तमविदूरतः।
ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥ 1.41.14 ॥
स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम्।
सलिलार्थी महातेजा न चापश्यज्जलाशयम् ॥ 1.41.15 ॥
विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम्।
पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥ 1.41.16 ॥
स चैवमब्रवीद्वाक्यं वैनतेयो महाबलः।
मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः ॥ 1.41.17 ॥
कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः।
सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥ 1.41.18 ॥
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ।
तस्यां कुरु महाबोहो पितॄणां तु जलक्रियाम् ॥ 1.41.19 ॥
तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया।
षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति ॥ 1.41.20 ॥
गच्छ चाश्वं महाभाग तं गृह्य पुरुषर्षभ।
यज्ञं पैतामहं वीर संवर्तयितुमर्हसि ॥ 1.41.21 ॥
सुपर्णवचनं श्रुत्वा सोंऽशुमानति वीर्यवान्।
त्वरितं हयमादाय पुनरायान्महायशाः ॥ 1.41.22 ॥
ततो राजानमासाद्य दीक्षितं रघुनन्दन।
न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा ॥ 1.41.23 ॥
तच्छ्रुत्वा घोरसङ्काशं वाक्यमंशुमतो नृपः।
यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥ 1.41.24 ॥
स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः।
गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥ 1.41.25 ॥
अकृत्वा निश्चयं राजा कालेन महता महान्।
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥ 1.41.26 ॥