देवतानां वचः श्रुत्वा भगवान् वै पितामहः।
प्रत्युवाच सुसन्त्रस्तान् कृतान्तबलमोहितान् ॥ 1.40.1 ॥
कापिलं रूपमास्थाय धारयत्यनिशं धराम्।
तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ॥ 1.40.2 ॥
पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः।
सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम् ॥ 1.40.3 ॥
पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिन्दम।
देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥ 1.40.4 ॥
सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम्।
पृथिव्यां भिद्यमानायां निर्घातसमनिःस्वनः ॥ 1.40.5 ॥
ततो भित्त्वा महीं सर्वे कृत्वा चापि प्रदक्षिणम्।
सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ॥ 1.40.6 ॥
परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः।
देवदानवरक्षांसि पिशाचोरगकिन्नराः ॥ 1.40.7 ॥
न च पश्यामहेऽश्वं तमश्वहर्तारमेव च।
किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ॥ 1.40.8 ॥
तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः।
समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन ॥ 1.40.9 ॥
भूयः खनत भद्रं वो निर्भिद्य वसुधातलम्।
अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ ॥ 1.40.10 ॥
पितुर्वचनमासाद्य सगरस्य महात्मनः।
षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ॥ 1.40.11 ॥
खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम्।
दिशागजं विरूपाक्षं धारयन्तं महीतलम् ॥ 1.40.12 ॥
सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन।
शिरसा धारयामास विरूपाक्षो महागजः ॥ 1.40.13 ॥
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः।
खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ॥ 1.40.14 ॥
तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम्।
मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ॥ 1.40.15 ॥
ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः।
दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ॥ 1.40.16 ॥
महापद्मं महात्मानं सुमहत्पर्वतोपमम्।
शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् ॥ 1.40.17 ॥
ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः।
षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ॥ 1.40.18 ॥
पश्चिमायामपि दिशि महान्तमचलोपमम्।
दिशागजं सौमनसं ददृशुस्ते महाबलाः ॥ 1.40.19 ॥
तं ते प्रदक्षिणं कृत्वा पृष्ट्वाचापि निरामयम्।
खनन्तः समुपक्रान्ता दिशं हैमवतीं ततः ॥ 1.40.20 ॥
उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डरम्।
भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ॥ 1.40.21 ॥
समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम्।
षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ॥ 1.40.22 ॥
ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम्।
रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ॥ 1.40.23 ॥
ते तु सर्वे महात्मानो भीमवेगा महाबलाः।
ददृशुः कपिलं तत्र वासुदेवं सनातनम् ॥ 1.40.24 ॥
हयं च तस्य देवस्य चरन्तमविदूरतः।
प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन ॥ 1.40.25 ॥
खनित्रलाङ्गलधरा नानावृक्षशिलाधराः।
अभ्यधावन्त सङ्क्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् ॥ 1.40.26 ॥
अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि।
दुर्मेधस्त्वं हि सम्प्राप्तान् विद्धि नः सगरात्मजान् ॥ 1.40.27 ॥
श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन।
रोषेण महताऽऽविष्टो हुङ्कारमकरोत्तदा ॥ 1.40.28 ॥
ततस्तेनाप्रमेयेन कपिलेन महात्मना।
भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥ 1.40.29 ॥