विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः।
उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥ 1.39.1 ॥
श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम्।
पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ॥ 1.39.2 ॥
विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव।
श्रूयतां विस्तरो राम सगरस्य महात्मनः ॥ 1.39.3 ॥
शङ्करश्वशुरो नाम हिमवानचलोत्तमः।
विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् ॥ 1.39.4 ॥
तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः स पुरुषोत्तम।
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि ॥ 1.39.5 ॥
तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः।
अंशुमानकरोत्तात सगरस्य मते स्थितः ॥ 1.39.6 ॥
तस्य पर्वणि तं यज्ञं यजमानस्य वासवः।
राक्षसीं तनुमास्थाय यज्ञीयाश्वमपाहरत् ॥ 1.39.7 ॥
ह्रियमाणो तु काकुत्स्थ तस्मिन्नश्वे महात्मनः।
उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् ॥ 1.39.8 ॥
अयं पर्वणि वेगेन यज्ञीयाश्वोऽपनीयते।
हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् ॥ 1.39.9 ॥
यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय नः।
तत्तथा क्रियतां राजन् यथाऽच्छिद्रः क्रतुर्भवेत् ॥ 1.39.10 ॥
उपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः।
षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ॥ 1.39.11 ॥
गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः।
मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ॥ 1.39.12 ॥
तद्गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः।
समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत ॥ 1.39.13 ॥
एकैकं योजनं पुत्रा विस्तारमभिगच्छत ॥ 1.39.14 ॥
यावत्तुरगसन्दर्शस्तावत् खनत मेदिनीम्।
तं चैव हयहर्तारं मार्गमाणा ममाज्ञया ॥ 1.39.15 ॥
दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम्।
इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम् ॥ 1.39.16 ॥
इत्युक्ता हृष्टमनसो राजपुत्रा महाबलाः।
जग्मुर्मुहीतलं राम पितुर्वचनयन्त्रिताः ॥ 1.39.17 ॥
योजनायामविस्तारमेकैको धरणीतलम्।
बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्नखैः ॥ 1.39.18 ॥
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः।
भिद्यमाना वसुमती ननाद रघुनन्दन ॥ 1.39.19 ॥
नागानां वध्यमानानामसुराणां च राघव।
राक्षसानां च दुर्द्धर्षः सत्त्वानां निनदोऽभवत् ॥ 1.39.20 ॥
योजनानां सहस्राणि षष्टिं तु रघुनन्दन।
बिभिदुर्धरणीं वीरा रसातलमनुत्तमम् ॥ 1.39.21 ॥
एवं पर्वतसम्बाधं जम्बूद्वीपं नृपात्मजाः।
खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥ 1.39.22 ॥
ततो देवाः सगन्धर्वाः सासुरास्सहपन्नगाः।
सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥ 1.39.23 ॥
ते प्रसाद्य महात्मानं विषण्णवदनास्तदा।
ऊचुः परमसन्त्रस्ताः पितामहमिदं वचः ॥ 1.39.24 ॥
भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः।
बहवश्च महात्मानो हन्यन्ते तलवासिनः ॥ 1.39.25 ॥
अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते।
इति ते सर्वभूतानि निघ्नन्ति सगरात्मजाः ॥ 1.39.26 ॥