तां कथां कौशिको रामे निवेद्य कुशिकात्मजः।
पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥ 1.38.1 ॥
अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः।
सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥ 1.38.2 ॥
वैदर्भदुहिता राम केशिनी(?) नाम नामतः।
ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥ 1.38.3 ॥
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि।
द्वितीया सगरस्यासीत् पत्नी सुमतिसञ्ज्ञिता ॥ 1.38.4 ॥
ताभ्यां सह तथा राजा पत्नीभ्यां तप्तवांस्तपः।
हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥ 1.38.5 ॥
अथ वर्षशते पूर्णे तपसाराधितो मुनिः।
सगराय वरं प्रादाद्भृगुः सत्यवतां वरः ॥ 1.38.6 ॥
अपत्यलाभः सुमहान् भविष्यति तवानघ।
कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥ 1.38.7 ॥
एका जनयिता तात पुत्रं वंशकरं तव।
षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥ 1.38.8 ॥
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम्।
ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥ 1.38.9 ॥
एकः कस्यास्सुतो ब्रह्मन् का बहून् जनयिष्यति।
श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥ 1.38.10 ॥
तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः।
उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥ 1.38.11 ॥
एको वंशकरो वाऽस्तु बहवो वा महाबलाः।
कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥ 1.38.12 ॥
मुनेस्तु वचनं श्रुत्वा कैशिनी(?) रघुनन्दन।
पुत्रं वंशकरं राम जग्राह नृपसन्निधौ ॥ 1.38.13 ॥
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा।
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥ 1.38.14 ॥
प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य च।
जगाम स्वपुरं राजा सभार्यो रघुनन्दन ॥ 1.38.15 ॥
अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत।
असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥ 1.38.16 ॥
सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत।
षष्टिः पुत्राः सहस्राणि तुम्बभेदाद्विनिःसृताः ॥ 1.38.17 ॥
घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्द्धयन्।
कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥ 1.38.18 ॥
अथ दीर्घेण कालेन रूपयौवनशालिनः।
षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥ 1.38.19 ॥
बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन।
प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान् समीक्ष्य वै ॥ 1.38.20 ॥
एवं पापसमाचारः सज्जनप्रतिबाधकः।
पौराणामहिते युक्तः पुत्रो निर्वासितः पुरात् ॥ 1.38.21 ॥
तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान्।
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ॥ 1.38.22 ॥
ततः कालेन महता मतिः समभिजायत।
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ॥ 1.38.23 ॥
स कृत्वा निश्चयं राम सोपाध्यायगणस्तदा।
यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥ 1.38.24 ॥