०३७ स्कन्दोत्पत्तिः

तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा।
सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥ 1.37.1 ॥
ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम्।
प्रणिपत्य सुराः सर्वे सेन्द्राः साग्निपुरोगमाः ॥ 1.37.2 ॥
यो नः सेनापतिर्देव दत्तो भगवता पुरा।
तपः परममास्थाय तप्यते स्म सहोमया ॥ 1.37.3 ॥
यदत्रानन्तरं कार्यं लोकानां हितकाम्यया।
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥ 1.37.4 ॥
देवतानां वचः श्रुत्वा सर्वलोकपितामहः।
सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥ 1.37.5 ॥
शैलपुत्र्या यदुक्तं तन्न प्रजाः सन्तु पत्निषु।
तस्या वचनमक्लिष्टं सत्यमेतन्न संशयः ॥ 1.37.6 ॥
इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः।
जनयिष्यति देवानां सेनापतिमरिन्दमम् ॥ 1.37.7 ॥
ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तत्सुतम्।
उमायास्तद्बहुमतं भविष्यति न संशयः ॥ 1.37.8 ॥
तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन।
प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥ 1.37.9 ॥
ते गत्वा पर्वतं राम कैलासं धातुमण्डितम्।
अग्निं नियोजयामासुः पुत्रार्थं सर्वदैवताः ॥ 1.37.10 ॥
देवकार्यमिदं देव संविधत्स्व हुताशन।
शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ॥ 1.37.11 ॥
देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः।
गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥ 1.37.12 ॥
तस्य तद्वचनं श्रुत्वा दिव्यं रूपमधारयत्।
दृष्ट्वा तन्महिमानं स समन्तादवकीर्यत ॥ 1.37.13 ॥
समन्ततस्तदा देवीमभ्यषिञ्चत पावकः।
सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥ 1.37.14 ॥
अशक्ता धारणे देव तव तेजः समुद्धतम्।
दह्यमानाग्निना तेन सम्प्रव्यथितचेतना ॥ 1.37.15 ॥
अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः।
इह हैमवते पादे गर्भोऽयं सन्निवेश्यताम् ॥ 1.37.16 ॥
श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम्।
उत्ससर्ज महातेजः स्रोतोभ्यो हि तदानघ ॥ 1.37.17 ॥
यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम्।
काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम् ॥ 1.37.18 ॥
ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत।
मलं तस्याभवत्तत्र त्रपु सीसकमेव च ॥ 1.37.19 ॥
तदेतद्धरणीं प्राप्य नानाधातुरवर्द्धत ॥ 1.37.20 ॥
निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम्।
सर्वं पर्वतसन्नद्धं सौवर्णमभवद्वनम् ॥ 1.37.21 ॥
जातरूपमिति ख्यातं तदाप्रभृति राघव।
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ॥ 1.37.22 ॥
तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ॥ 1.37.23 ॥
तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः।
क्षीरसम्भावनार्थाय कृत्तिकाः समयोजनयन् ॥ 1.37.24 ॥
ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम्।
ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ॥ 1.37.25 ॥
ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन्।
पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ॥ 1.37.26 ॥
तेषां तद्ववचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे।
स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् ॥ 1.37.27 ॥
स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात्।
कार्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम् ॥ 1.37.28 ॥
प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम्।
षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥ 1.37.29 ॥
गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा।
अजयत्स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ॥ 1.37.30 ॥
सुरसेनागणपतिं ततस्तमतुलद्युतिम्।
अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः ॥ 1.37.31 ॥
एष ते राम गङ्गाया विस्तरोऽभिहितो मया।
कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥ 1.37.32 ॥
भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः।
आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥ 1.37.33 ॥