०३६ उमामाहत्म्यम्

उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ।
अभिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ॥ 1.36.1 ॥
दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि।
विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम् ॥ 1.36.2 ॥
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ॥ 1.36.3 ॥
कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा।
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ॥ 1.36.4 ॥
तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः।
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् ॥ 1.36.5 ॥
पुरा राम कृतोद्वाहो नीलकण्ठो महातपाः।
दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे ॥ 1.36.6 ॥
एवं मन्मथयुद्धे तु तयोर्नासीत्पराजयः ॥ ] न चापि तनयो राम तस्यामासीत्परन्तप ॥ 1.36.7 ॥
ततो देवाः समुद्विग्नाः पितामहपुरोगमाः।
यदिहोत्पद्यते भूतं कस्तत्प्रतिसहिष्यते ॥ 1.36.8 ॥
अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥ 1.36.9 ॥
देवदेव महादेव लोकस्यास्य हिते रत।
सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥ 1.36.10 ॥
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम।
ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥ 1.36.11 ॥
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ॥ 1.36.12 ॥
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः।
बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥ 1.36.13 ॥
धारयिष्याम्यहं तेजस्तेजस्येव सहोमया।
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥ 1.36.14 ॥
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम्।
धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥ 1.36.15 ॥
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम्।
यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति ॥ 1.36.16 ॥
एवमुक्तः सुरपतिः प्रमुमोच महीतले।
तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥ 1.36.17 ॥
ततो देवाः पुनरिदमूचुश्चाथ हुताशनम्।
प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥ 1.36.18 ॥
दिव्यं शरवणं चैव पावकादित्यसन्निभम्।
यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः ॥ 1.36.19 ॥
अथोमां च शिवं चैव देवाः सर्पिगणास्तदा।
पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः ॥ 1.36.20 ॥
अथ शैलसुता राम त्रिदशानिदमब्रवीत्।
समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना ॥ 1.36.21 ॥
यस्मान्निवारिता चैव सङ्गतिः पुत्रकाम्यया।
अपत्यं स्वेषु दारेषु तस्मान्नोत्पादयिष्यथ ॥ 1.36.22 ॥
अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः।
एवमुक्त्वा सुरान् सर्वान् शशाप पृथिवीमपि ॥ 1.36.23 ॥
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता।
प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती ॥ 1.36.24 ॥
तान् सर्वान् व्रीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा।
गमनायोपचक्राम दिशं वरुणपालिताम् ॥ 1.36.25 ॥
स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः।
हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥ 1.36.26 ॥
एष ते विस्तरो राम शैलपुत्र्या निवेदितः।
गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः ॥ 1.36.27 ॥