०३५ गङ्गोत्पत्तिः

उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः।
निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥ 1.35.1 ॥
सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते।
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥ 1.35.2 ॥
तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम्।
गमनं रोचयामास वाक्यं चेदमुवाच ह ॥ 1.35.3 ॥
अयं शोणः शुभजलो गाधः पुलिनमण्डितः।
कतरेण पथा ब्रह्मन् सन्तरिष्यामहे वयम् ॥ 1.35.4 ॥
एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम्।
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥ 1.35.5 ॥
एवमुक्ता महर्षयो विश्वामित्रेण धीमता।
पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥ 1.35.6 ॥
ते गत्वा दूरमध्वानं गतेऽर्द्धदिवसे तदा।
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥ 1.35.7 ॥
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम्।
बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ॥ 1.35.8 ॥
तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम् ॥ 1.35.9 ॥
ततः स्नात्वा यथान्यायं सन्तर्प्य पितृदेवताः।
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ॥ 1.35.10 ॥
विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः।
विश्वामित्रं महात्मानं परिवार्य समन्ततः ॥ 1.35.11 ॥
अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत्।
भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ॥ 1.35.12 ॥
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ 1.35.13 ॥
चोदितो रामवाक्येन विश्वामित्रो महामुनिः।
वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥ 1.35.14 ॥
शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान्।
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ 1.35.15 ॥
या मेरुदुहिता राम तयोर्माता सुमध्यमा।
नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया ॥ 1.35.16 ॥
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता।
उमा नाम द्वितीयाभून्नाम्ना तस्यैव राघव ॥ 1.35.17 ॥
अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया।
शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥ 1.35.18 ॥
ददौ धर्मेण हिमवांस्तनयां लोकपावनीम्।
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ 1.35.19 ॥
प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः।
गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥ 1.35.20 ॥
या चान्या शैलदुहिता कन्याऽऽसीद्रघुनन्दन।
उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना ॥ 1.35.21 ॥
उग्रेण तपसा युक्तां ददौ शैलवरः सुताम्।
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ 1.35.22 ॥
एते ते शैलराजस्य सुते लोकनमस्कृते।
गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव ॥ 1.35.23 ॥
एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी।
खं गता प्रथमं तात गतिं गतिमतां वर ॥ 1.35.24 ॥
सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा।
सुरलोकं समारूढा विपापा जलवाहिनी ॥ 1.35.25 ॥