०३४ विश्वामित्रवंशकथा

कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव।
अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥ 1.34.1 ॥
इष्ट्यां च वर्तमानायां कुशनाभं महीपतिम्।
उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥ 1.34.2 ॥
पुत्र ते सदृशः पुत्रो भविष्यति सुधार्मिकः।
गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥ 1.34.3 ॥
एवमुक्त्वा कुशो राम कुशनाभं महीपतिम्।
जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥ 1.34.4 ॥
कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतः।
यज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥ 1.34.5 ॥
स पिता मम काकुत्स्थ गाधिः परमधार्मिकः।
कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥ 1.34.6 ॥
पूर्वजा भगिनी चापि मम राघव सुव्रता।
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥ 1.34.7 ॥
सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी।
कौशिकी परमोदारा प्रवृत्ता च महानदी ॥ 1.34.8 ॥
दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता।
लोकस्य हितकामार्थं प्रवृत्ता भगिनी मम ॥ 1.34.9 ॥
ततोऽहं हिमवत्पार्श्वे वसामि निरतः सुखम्।
भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥ 1.34.10 ॥
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता।
पतिव्रता महाभागा कौशिकी सरितां वरा ॥ 1.34.11 ॥
अहं हि नियमाद्राम हित्वा तां समुपागतः।
सिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा ॥ 1.34.12 ॥
एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता।
देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥ 1.34.13 ॥
गतोऽर्द्धरात्रः काकुत्स्थ कथाः कथयतो मम।
निद्रामभ्येहि भद्रं ते मा भूद्विघ्नोऽध्वनीह नः ॥ 1.34.14 ॥
निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः।
नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥ 1.34.15 ॥
शनैर्वियुज्यते सन्ध्या नभो नेत्रैरिवावृतम्।
नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ 1.34.16 ॥
उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः।
ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो ॥ 1.34.17 ॥
नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः।
यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशनाः ॥ 1.34.18 ॥
एवमुक्त्वा महातेजा विरराम महामुनिः।
साधु साध्विति तं सर्वे ऋषयो ह्यभ्यपूजयन् ॥ 1.34.19 ॥
कुशिकानामयं वंशो महान् धर्मपरः सदा।
ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥ 1.34.20 ॥
विशेषेण भवानेव विश्वामित्रो महायशाः।
कौशिकी च सरिच्छ्रेष्ठा कुलोद्योतकरी तव ॥ 1.34.21 ॥
इति तैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः।
निद्रामुपागमच्छ्रीमानस्तङ्गत इवांशुमान् ॥ 1.34.22 ॥
रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः।
प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥ 1.34.23 ॥